#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00060 Uniform title: prāṇatoṣiṇī bhaktikāṇḍa Author : rāmatoṣaṇa compiler Description: Compiled by rāmatoṣaṇa bhaṭṭācārya Originally published by kalikātā in Bengali script in the tantrasārādivividhatantrasaṃgraha Notes: Data-entered by the staff of Muktabodha under the supervision of Mark S. G. Dyczkowski . Revision 0 : Feb. 18, 2009 . Publisher : kalikātā Publication year : Pre-1900 Publication city : Publication country : India #################################################### टित्ले पगे || श्रीः || प्राणतोषिणी श्रीरामतोषण भट्टाचार्येण तन्त्रशास्त्रात् संकलयय विरचिता Vइ, ए उपाधिधारिणा पण्डितकुलपतिना श्रीजीवानन्दविद्यासागरभट्टाअचर्ययेण प्रकाशिता | Kअलिकातानगरे Kअलिकातायन्त्रे मुद्रिता १८९८ आड् ५) भक्तिकाण्ड प्रणम्येष्टपदाम्भोजं चतुर्वर्गफलप्रदम् | पञ्चमं भक्तिकाण्डञ्च तनोति रामतोषणः | निर्घण्टो भक्तिकाण्डस्य पञ्चमस्याधुनोच्यते | प्रातःकृत्यं गणेशय स्नानादि तदनन्तरम् | तर्पणस्य विशेषस्तु फलं तस्य ततः परम् | श्रीगणेशभूतशुद्धिमातृकान्यासनं विना | कर्त्तव्यकर्मनिन्दा च षडङ्गन्यास एव च | मातृकान्यासकृत्यस्य प्रकारस्तदनन्तरम् | न्यासान्तरं ततो ध्यानं यन्त्रस्य करणं ततः | पीठपूजादिकञ्चावाहनं पूजाक्रमस्ततः | गन्धाष्टकं गणेशस्य पुष्पञ्च तदनन्तरम् | धूपदीपादिभेदश्चावरणार्च्चा ततः परम् | पुरश्चर्या गणेशस्य काम्यकर्म ततः परम् | महालक्ष्म्यादिकानाञ्च साधनं तदनन्तरम् | गणेशमन्त्रो यन्त्रञ्च धारणार्हमतः परम् | आकर्षणादिकर्माणि ततो ध्यानान्तरं ततः | कर्मभेदे वर्णभेदो बीजत्रयं गणेशितुः | ध्यानान्तरं ततो मुद्रा पुरश्चर्यान्तरं ततः | तीव्रादिशक्तिध्यानन्तु पीठमन्त्रस्ततः परम् | पूजावरणपूजा चाष्टबाहुगणपार्च्चनम् | ततो मूषिकपूजा च हरिद्रागणपोद्भवः | गणेशोपनिषच्चैव स्तोत्रं गणपतेस्ततः | कवचं गणनाथस्य लिपिलम्बोदरोद्भवः | अन्यान्यपि यथास्थानं दृष्ट्वा ज्ञेयानि पण्डितैः | इत्यादिमपरिच्छेदसमाप्तिरभिधीयते | वाणलिङ्गं तस्य भेदस्तच्चिह्नं तत्परीक्षणम् | वाणशब्दस्य व्युत्पत्तिर्वाणलिङ्गप्रशंसनम् | तत्पूजनफलञ्चैव तत्स्थापनफलं ततः | रसलिङ्गफलञ्चैव निन्द्यलिङ्गं ततः परम् | प्. ५८८) शुभलिङ्गं वाणलिङ्गमुद्भूतिकारणं ततः | वाणलिङ्गस्थलं वाणलिङ्गं नैकप्रकारकम् | ध्यानं पूजा स्तवश्चैव रौद्रलिङ्गादिलक्षणम् | शिला न मृत्स्नादिसम्भूतलिङ्गार्चनफलं ततः | धात्वाद्यद्भूतलिङ्गस्य संस्कारस्तदनन्तरम् | सशक्तिकलिङ्गपूजाफलं तत्तत्प्रमाणकम् | विप्रादिभेदे मृत्स्नायाः फलं स्थूलं शिलादिजम् | फलदं पञ्चसूत्रादिलिङ्गव्यत्पत्तिरेव च | लिङ्गमाहात्म्यपूजादिफले च तदनन्तरम् | रसलिङ्गस्य माहात्म्यं तल्लिङ्गनिर्मितिस्ततः | लिङ्गोत्पत्तिर्वैष्णवादेर्लिङ्गपूजाधिकारिता | तदकाणनिन्दादौ शिवलिङ्गोत्पत्तिर्वैष्णवादेर्लिङ्गपूजाधिकारिता | तदकरणनिन्दादौ शिवलिङ्गार्चनाविधिः | लिङ्गस्य स्थापनफलं काम्यपूजा ततः परम् | इति छेदो द्वितीयस्य समाप्तिरभिधीयते | तीर्थादिमृत्तिका ग्राह्या शिवनिर्माणकर्मणि | नदी क्षुद्रलक्षणाञ्च लिङ्गनिर्मीतरेव च | मृत्तिकाहकरणे मन्त्रो मन्त्राज्ञाने च निन्दनम् | निर्माणमन्त्रस्तत्प्रमाणं प्रतिष्ठान्यास एव च | प्राणायामस्ततो ध्यानमावाहनमतः परम् | मन्त्रः षडक्षरः पूजाष्टमूर्तिपूजनं ततः | जपः समर्पणं तस्य मुखवाद्यं ततो नतिः | विसर्जनं ततः पूजा सूत्रञ्च तदनन्तरम् | ततश्च पूजकस्थानं दोषा न्यूनाधिकेन च | सर्वाग्रतो लिङ्गपूजान्यथा दोषस्तनन्तरम् | पुष्पदानञ्चैव ततः पुष्पमाहात्म्यमेव च | विजयापत्रमाहात्म्यं काम्यलिङ्गार्चनाक्रमः | प्रत्यहं लिङ्गपूजा च लिङ्गार्पितफलं ततः | रिष्टशान्तिशान्तिरेकदिनकृतलिङ्गार्चनाफलम् | सार्वकामिकपूजा चाग्राह्यं लिङ्गार्पितं ततः | तात्कारणञ्च पात्रस्थं भक्ष्यं नैवेद्यमुत्तमम् | शिवस्वग्रहणे दोषस्तत्प्रायश्चित्तमेव च | वाणलिङ्गार्पितं ग्राह्यं स्वयम्भाद्यर्पितं तथा | निर्माल्यद्रव्यनिर्णीतिस्तथार्षादिष्वपि स्मृतम् | ततः पाशुपतास्त्रञ्च लिङ्गस्तोत्रं ततः परम् | शिवस्य कवचं विल्ववृक्षादिमहिमा ततः | रुद्राक्षमहिमा संवित् प्रकरणं तदनन्तरम् | प्. ५८९) तृतीयच्छेदसम्पूर्त्तिरिति निर्णीयवेमया | शालग्रामशिलोत्पत्तिनिदानं चक्रकारणम् | अनुद्योगविष्णुशिलालाभोत्तमफलं ततः | स्निग्धादिगुणदोषाश्च सकामे दोषनिर्णयः | शालग्रामार्च्चनफलं चक्रद्वादशकोद्भवम् | फलञ्च चक्रसंख्याभिः शालग्रामनिरूपणम् | शालग्रामस्थितिफलं तत्प्रभेदस्ततः परम् | विप्रादिभेदे चक्रस्य विशेषस्तदनन्तरम् | संस्पर्शार्चानिषेधस्तु राजन्यादेर्निरूपितः | भोजनस्य च निदापि शालग्रामार्च्चनं विना | चक्रद्वयं तथा लिङ्गद्वयं नार्च्यं गृहे क्वचित् | द्वादशादिचक्रपूजाफलं चक्रस्य विक्रये | दोषस्तु न स्यात् चक्रार्चफलञ्च तदनन्तरम् | गण्डकीद्वारकाचक्रसङ्गमस्य फलं ततः | शालग्रामे विष्णुपूजाफलं ज्ञेयं ततः परम् | परिच्छेदचतुर्थस्य समाप्तिरीरिता | द्वारकाचक्रचिह्नानि तन्माहात्म्यं ततः परम् | तस्य वर्णविशेषेण शुभाशुभफलं ततः | निन्दा शिलाचक्रभेदे नामभेदस्ततः परम् | जीर्णोद्धारादिकर्माणि शालग्रामशिलार्च्चनात् | ततश्च षट्पदीस्तोत्रं प्रणामः प्रार्थना ततः | चरणामृतपानञ्च शिरसा तस्य धारणम् | अपीत्वा मूर्ध्निधर्त्तुश्च निन्दा विप्राङ्घ्रिवारिणः | पादं नैवेद्यदानस्य मन्त्रश्चार्च्चनसूत्रकम् | षोडशोपचारमन्त्राः काम्यकर्म्म ततः परम् | श्रीविष्णुनाममाहात्म्यं शतनाम ततः परम् | विष्णपूजा काष्ठपात्रादिषु दोषावहा ततः | स्वर्णादिपात्रे पूजातिफलदा तदनन्तरम् | पुरुषसूक्तमाहात्म्यं स्नानत्र्यफलं ततः | उद्वर्त्तनस्नानफलं फलं शङ्खे शुभाशुभम् | त्रिपदीलक्षणञ्चैव तुलसीमहिमादि च | मालाधारणमप्युक्तं वैष्णवस्य प्रशंसनम् | दशावतारतिथ्यादिपरिच्छेदोऽत्र पञ्चमः || महाविद्यानिर्णयश्च तासां माहात्म्यकीर्त्तनम् | महाविद्याप्रभृतीनां भैरवस्तदनन्तरम् | महारात्र्यादिनिर्णीतिर्विद्योत्पत्तिस्ततः परम् | प्. ५९०) महाकालीस्वरूपञ्चालीढादिकीर्तनं तपः | कालीमन्त्रप्रशंसा चाद्यानिन्दादोष एव च | कालीमन्त्रद्वयञ्चैव ताभ्यां शान्त्यादिरेव च | मन्त्रद्वयफलञ्चैव ऋष्यादिन्यास एव च | संयमादितन्त्रकर्म गुरुणा कृत्यमेव च | तत्पुत्राद्यैः स्वयं वापि नान्यद्वारा कदाचन | गुरुणा कृततन्त्रोक्तकर्मणः फलनिर्णयः | गुरुपत्न्याः कृते कर्मण्यत्र होमो न विद्यते | पुरोहितेन विहितेन विहिते तस्मिन् कर्मणि निन्दनम् | जनस्य सन्निधौ पूजानिषेधः परिकीर्तितः | अथवा वुष्णुतन्त्रोक्तपूजा तत्र विधीयते | इष्टदेवं विनान्यत्र भक्तिर्निन्दा तथैव च | पूजा च त्रिविधा वाह्यपूजाफलमतः परम् | पूजासूत्रं ततः सङ्क्षेपपूजासूत्रमेव च | नित्यपूजाविधानञ्च मन्त्रद्वयपुरस्क्रिया | शतनामस्तुतिश्चैव महाविद्यास्तवस्ततः | महाविद्या कवचञ्च कालीकवचमेव च | शाक्तप्रशंसा विप्राणां शाक्तत्वकारणं ततः | शक्त्युपासकभर्त्यस्यान्योपासननिषेधनम् | अन्यान्यपि यथास्थानं ज्ञातव्यानि मनीषिभिः | इति षष्ठपरिच्छेदसमाप्तिरभिधीयते | एकवर्षादिभेदेन कुमारीनामनिर्णयः | विशेषस्तत्र तत्रापि नानातन्त्रानुसारतः | कुमारीपूजनस्थानफलं तत्कालनिर्णयः | तस्याः पुष्पादिदानस्य भोजनस्यापि यत् फलम् | पूजास्थानञ्च तत्पश्चात् कुमारीपूजने मनुः | पूजाक्रमः कुमारीणां प्रणामस्तदनन्तरम् | दक्षिणादिप्रदानञ्च कन्योद्वाअफलं ततः | विवाहनाफलञ्चैव तन्मन्त्रस्य पुरस्क्रिया | कुमारिकापूजनस्य प्रयोगस्तदनन्तरम् | कुमारीस्तवराजश्च कुमारीकवचं ततः | ब्राह्मणस्य प्रशंसा चाध्यापकवृत्तिजं फलम् | ब्रह्मशापफलं तीर्थयात्रा च तदनन्तरम् | दिग्विशेषे च यात्रायां निषिद्धमासनिर्णयः | योगिनीनिर्णयश्चैव तिथियोगविशेषयोः | योगे यात्रानिषेधश्च तिथ्यर्क्षयोगतस्तथा | प्. ५९१) निषेधो जन्ममासादेरूषादिनिर्णयस्ततः | दिग्विशेषे च यात्रा तु दिग्विशेषमुखस्य च | तत्रापि यात्रिकद्रव्यविशेषनिर्णयस्ततः | गयाया निर्णयश्चैव प्रेतशिलानिरूपणम् | गोलादिलिङ्गनिर्णीतिः स्वपिण्डदानमेव च | आगस्त्ये तत्फलञ्चैव स्वकृत्यकालनिर्णयः | तत्र नास्ति च कालस्य नियमः श्राद्धकर्मणि | विषुवश्राद्धकरणे निरामिषनिषेधनम् | आमश्राद्धे त्वाममांसनिषेधश्च ततः परम् | कृते च सामिषश्राद्धे निन्दा निरामिषाशने | वर्षश्राद्धादिषु तथामिषदानविनिर्णयः | कृते निरामिशश्राद्धे दोषस्त्वामिषभोजने | शुद्रनिमन्त्रणे विप्रभुक्तिनिन्दा ततः परम् | श्राद्धे देयं तथा मांसं तत्फलञ्च ततः परम् | वर्ज्यं मांसं तथा देया मत्स्या वर्ज्यास्तथैव च | धूपपक्वकदल्यादिनिषेधस्तदनन्तरम् | श्राद्धे पात्रविशेषान्नैस्तृप्तिकालनिरूपणम् | निमन्त्रणापक्रान्तौ च काशीमाहात्म्यमेव च | इति सप्तमविच्छेदसमाप्तिः कथिता मया || इदं सप्तभिर्विस्तृतं भक्तिकाण्डं परिच्छेदरूपैः फलैः संयुतञ्च | यदर्थं सुरामानवाः किन्नराद्यास्तपश्चेरुरुग्रं गलत्पर्णभोगैः | आदेष्ट्टत्वरया न काण्डमतुलं भीमांसितं यन्मया धीरा ! नोपहसन्तु तेन परविघ्नस्येदृशी दुर्गतिः | पश्यन्त्वे कमनीहमीशमसकृन्मायागुणैर्दुस्त्यजैर्नानारूपधरंविभ् उं त्वमहमित्याविष्टचित्तं सदा || अथ गणेशप्रकरणम् || कुलमूलावतारकल्पसूत्रटीकाधृतद्वितीयकाण्डीयगणेश- विमर्षिण्याम् || ब्राह्म्ये मुहूर्ते उत्थाय शिरसि श्वेतपङ्कजे | श्वेतवर्णं मुखासीनं वरदाभयपाणिकम् | द्विनेत्रं शान्तवदनं स्मृत्वा निजगुरुं पुनः | प्रणिपत्य यथान्यायं वहिर्निर्गत्य साधकः | विहितावश्यकं शौचमाचामं दन्तधावनम् | मुखप्रक्षालनादीनि कृत्वा स्नानं समाचरेत् | हृन्मन्त्राङ्कुशमन्त्राभ्यां तीर्थं सवितृमण्डलात् | आवाह्याम्भसि संयोज्य सोमसूर्याग्निमण्डलम् | प्. ५९२) सञ्चिन्त्य मन्त्री तन्मध्ये निमज्ज्य सुसमाहितः | मूलमन्त्रं समारभ्य मनसा च त्रिवारकम् | समुत्थाय समाचान्तः सडङ्गीकृतविग्रहः | आत्मानं मूलमन्त्रेण मुद्रया कलसाख्यया | सप्तकृत्वोऽभिषिच्याथ मनुनामन्त्रितं जलम् | पीत्वाचम्याथ विमले वाससी परिधाय च | पुनराचम्य विन्यस्य षडङ्गमपि पूर्ववत् | वामहस्ते गृहीताधो गलितोदकविन्दुभिः | सप्तधा प्रोक्षणं कुर्यान्मूलमन्त्रं समुच्चरन् | अवशिष्टोदकं दक्षहस्ते कृत्वा तु मन्त्रितम् | दिनेशायोत्क्षिपेत्तिष्ठन् गायत्र्यार्घ्याञ्जलित्रयम् | तथा | सर्वाभीष्टप्रदं वक्ष्ये चतुरावृत्तितर्पणम् | एकान्ते विजनेऽरण्ये सर्वोपद्रववर्जिते | कृतस्नानादिको मन्त्री पूर्ववन्न्याससंयुतः | तडागमध्ये सञ्चिन्त्य पुष्पितं नलिनीवनम् | तस्य मध्ये महापद्मं तरुणादित्यसन्निभम् | समुन्नतं सुगन्धाढ्यं रमणीयं मनोहरम् | सद्यो विकसितं ध्यायेदथवा निर्मलौघवान् | यथावित्तानुसारेण सौवर्णादिशरावकम् | पृथुलं सुविशालास्यं नूतनं मृण्मयन्तु वा | भद्रासनन्तु संस्थाप्य नदीनदतडागजैः | शुद्धोदकैः समापूर्य तत्र वा कमलं स्मरेत् | रौप्यसोपानपङ्क्त्या तु आत्मानं गणनायकम् | विनिश्चित्य समागम्य तदम्भोरुहमध्यतः | उपविष्टं गणेशानं सर्वाभरणसंयुतम् | प्रकरैर्गन्धकुसुमैः समभ्यर्च्य च पूर्ववत् || साध्यमूर्द्धनि नासाग्रे निधायामृतधारया | तच्छरीरं सुसञ्चिन्त्य ध्यात्वा गणपमस्तके | चन्द्रचन्दनकाश्मीरकस्तूरीलोलितैर्जलैः | प्रथमं मूलमन्त्रेण चतुर्वारं प्रतर्प्य च | मिथुनं षडगणेशञ्च शङ्खपद्मनिधी अपि | स्वस्ववीजादिकैर्युग्मैः स्वाहान्तैश्च चतुश्चतुः | मूलमन्त्रं चतुर्वारपूर्वकं तर्पयेत् सुधीः | सम्भूयाष्टोत्तरशतं कनिष्ठोऽयं मतः क्रमः | यद्वाष्टवारं मूलेन तर्पयित्वा विशेषवित् | श्रीत्यादीनि युग्मानि निध्यन्तानि पृथक् पृथक् | प्. ५९३) विभज्य चतुरावृत्त्या मूलपूर्वं प्रतर्पयेत् | एवं मध्यक्रमोऽयं स्याद् द्विशतं षोडशोत्तरम् | अथवा मूलमन्त्रेण विंशद्वारं प्रतर्प्य च | पूर्वं मन्त्राक्षरैर्व्यस्तैः स्वाहान्तैश्च चतुश्चतुः | मूलमन्त्रचतुर्वारं पूर्ववत् सम्प्रतर्प्य च | मिथुनादीष्टतः पश्चात् पूर्ववत् सम्प्रतर्पयेत् | भवेत् सम्भूय सचतुश्चत्वारिंशच्चतुःशतम् | ज्येष्ठक्रमोऽयं सम्प्रोक्तस्तत्त्वज्ञैस्तन्त्रवेदिभिः | इत्थं सुधामयजलैरभिषिच्य कलेवरम् | देवं पुनश्च सन्तोष्य गन्धाद्यैर्देशकालवित् | सर्वाभीष्टतमं प्रार्थ्य नमस्कृत्य समुद्वसेत् | एवं योऽनुदिनं मन्त्री दिनादौ सम्प्रतर्पयेत् | मण्डलात् सकलाभीष्टं निर्विघ्नं लभते ध्रुवम् || शारदातिलके त्रयोदशपटलेऽपि || तर्पयेत् सलिलैः शुद्धैर्दिनेशं गणनायकम् | चतुश्चत्वारिंशताढ्यं चतुःशतमतन्द्रितः | प्राप्नुयान्मण्डलादर्वाक् अभीष्टमधिकं नरः | तर्पणे तु सर्वमन्त्राणामयं विशेषः | क्रीडन् हेममयोदयाद्रिशिखरे स्थित्वावतीर्णः क्षुधां सोपानेषु समेत्य रुक्मकलितेष्वब्जादिभैक्ष्यं बहु | भुक्त्वा प्रीतमना यथापुरमसौ सम्पूजितो विघ्नपः कुर्यादित्युषसि स्मृतः शशिकलाक्लामांस्तथा तर्पितः | तर्पणे तु गं गणेशं तर्पयामीति प्रयोगः | क्रमाच्चतुःशतमिति प्रतितिथिद्रव्यचतुष्टयेन तावान् होमः | अनावृष्टौ भये घोरे राजचौराद्युपद्रवे | महाहवे विवादे च महादारिद्र्यसङ्कटे | विवाहादिषु सर्वेषु कामेषु च विशेषतः | एवं प्रतर्पणं कुर्यान्मानसैश्च प्रसन्नधीः | श्रीगणेशप्रभावेण सर्वं सिद्ध्यति लीलया | अनाकुलमना मन्त्री भावयेदिक्षुसागरम् | तन्मध्ये विद्रुमद्वीपं तरुणादित्यसन्निभम् | तस्य मध्ये महादिव्यजाम्बूनदमयं स्थलम् | तस्योर्द्ध्वं कल्पकोद्याने विशालमणिभूतलम् | समयानिलसंसेव्यं ज्योत्स्नाकालातपारुणम् | तन्मध्ये मण्डपं दिव्यं मणिस्तम्भविराजितम् | प्. ५९४) सान्द्रसिन्दूरपङ्केन समालिप्तं मनोहरम् | मुक्तामणिवितानाढ्यं पुष्पमालाविराजितम् | घण्टाध्वजपतकाभिरुज्ज्वलं सुमनोहरम् | इत्थं सञ्चिन्त्य तन्मध्ये सुरसङ्घैः सुपूजितम् | वसन्ताद्यृतुभिः षड्भिः मेवितं युगपत् सदा | मणिरत्नप्रबालाढ्यं फलप्रसवपल्लवैः | शोभितं सर्वफलदं महाकल्पतरुं स्मरेत् | तत्र कल्पतरोर्मूले नवरत्नैः समं महत् | सिंहासनञ्च तन्मध्ये लसत्षट्कोणकर्णिकम् | अम्भोरुहं लिपिरियं भावयेन्मन्त्रवित्तमः | भूतशुद्धिप्रकरणम् || अथातः संप्रवक्ष्यामि भूतशुद्धिं यथाविधि | ध्वजमूलगुदाधस्ताद् दक्षपादाङ्घ्रिपार्ष्णिना | ऋजुकायशिरोग्रीवः संयतेन्द्रियमानसः | अङ्कसंलग्नपाणिश्च नासाग्रन्यस्तलोचनः | पूर्णस्वदेहशुषिरमापादाङ्गुष्ठमस्तकम् | सञ्चिन्य व्यापिनीं शक्तिं शरीरान्तरवाह्यतः | साहङ्कारमनोजीवप्राणान् संयम्य पूर्वकान् | गुरूपदिष्टमार्गेण मूलाधारान्नयेत् सुधीः | उत्थाप्य कुण्डलीशक्तिमात्मानञ्च तया सह | एकीकृत्यास्त्रमन्त्रेण ग्रन्थिविद्रावणक्रमात् | हंसेन कुम्भकोद्द्वातपरानन्दोऽर्द्धमर्च्चयेत् || सौषुम्नमध्यमार्गेण जीवात्मानमनन्यधीः | उत्तमाङ्गात्तमानीय द्वादशान्तर्गते शिवे ! | नियोज्य तत्त्ववर्णांश्च विलीनान् परिभाव्य च | नाभौ सविन्दुकं धूम्रं वह्निबीजं विचिन्त्य च | कलेवरञ्च हंसेन शोषयेच्चण्डवायुना | उद्घातपञ्चकेनाथ हृदयाम्बुसरोंरुहे | षट्कोणे नरसिंहार्णज्वालामालासमाकुलम् | सञ्चिन्त्योपधनं मूल्यमकल्मषमनामयम् | तद्वीजज्वालया दग्ध्वा भस्मीभूतं विभाव्य च | तद्भस्मकूटमखिलं वह्निबीजोत्थवायुना | विक्रीर्य संयतः पश्चाद् द्वादशार्णं चिदन्तरे | शिवशक्तिसमुद्भूतैस्तत्त्वाद्यैः सृष्टिमार्गतः | कलेवरं समुत्पाद्य तेजोरूपं महामयम् | प्. ५९५) चिच्चन्द्रबीजमध्यस्थं जलबीजमनुस्मरेत् | तदुद्भूतामृताम्भोधौ चिन्तयेद्वुद्बुदं महत् | ततो वुद्बुदमध्यस्थं ब्रह्माण्डं समनुस्मरेत् | तस्मिन् विश्वं ततो देवीं ध्यात्वा तद्धृदयाम्बुजे | सोऽहंधियात्मचैतन्यं समनीय चिदम्बरात् | ततः सुस्थिरमात्मानं भूबीजेन विचिन्तयेत् | स वाह्याभ्यन्तरं देहं संप्लाव्यं सुधया पुनः | स्वस्थानमागतां शक्तिं भावयेन्मनसा सुधीः | एवं कृत्वा भूतशुद्धिं पुनर्न्यासं समाचरेत् || मातृकान्यासोऽपि तत्रैव || जपादौ सर्वमन्त्राणां विन्यासेन लिपेर्विना | कृतन्तु निष्फलं विद्यात् तस्मात् पूर्वां लिपिं न्यसेत् | षण्डवर्यैर्विसर्गाद्यैराद्यैर्द्वादशभिः स्वरैः | पुटितैः कादिषड्वर्गैर्मन्त्री कुर्यात् षडङ्गकम् | केशान्ते मुखवृत्ते च चक्षुषोः श्रवणद्वये | नासागण्डौष्ठदन्तानां द्वन्द्वे मूर्द्ध्वास्ययोः स्वरान् | वर्णान् पञ्च चवर्गाणां बाह्वोश्चरणसन्धिषु | पार्श्वयोः पृष्ठतो नाभौ हृदये च क्रमान्न्यसेत् | यादिवर्गान् धातुप्राणेष्वात्मकेनात्मनः क्रमात् | न्यस्यैवं मातृकां पश्चादित्येवं न्यासमाचरेत् | न्यस्यैवं मातृकां पश्चान्मूलमन्त्रेण पञ्चधा | स्थानेषु वक्ष्यमाणेषु विन्यसेत् प्रयतात्मवान् | मूर्द्धास्यहृद्गुह्यपादहृत्सु बीजानि षट् क्रमात् | विन्यस्य व्यापयेच्छिष्टान् मन्त्रार्णान् सर्वविग्रहे | शिरोललाटदृग्वक्त्रचूडाजिह्वासु विन्यसेत् | षड्बीजानि मुखे शिष्टेर्मन्त्राणैः सर्वविग्रहे | शिरोभ्रूममध्ययोः श्रोत्रे नेत्रनासायुगेष्वपि | वक्त्रे करपदद्वन्द्वंलसत्सन्धिचतुष्टये | कर्पूरे हृदयाम्भोजे मन्त्रार्णैर्व्यापकं तनौ | शिरोवक्त्रहृदम्भोजगुह्यपत्स्वपि पञ्चकम् | मिथुनानां न्यसेत् स्वीयैः स्वबीजैर्नामभिः पृथक् | अखिलागमतत्त्वज्ञैरीशानशिवदेशिकैः | पञ्चमं मिथुनं प्रोक्तं षष्ठञ्च कमलात्मकम् | अथ मूलषडङ्गानि विन्यसेदुक्तमानतः | प्. ५९६) बीजषट्कैश्चागमाद्यैर्वह्नेर्जातिसमन्वितैः | अङ्गुष्ठादिकनिष्ठान्तमुत्पत्तिर्ब्रह्मचारिणाम् | मध्यादितर्जन्यवधि गृहस्थानां स्थितिर्भवेत् | अङ्गुष्ठान्तं कनिष्ठादि यतीनां संहृतिर्भवेत् | आश्रमानुगुणं मन्त्री करयोरुभयोरपि | अङ्गुलीषु च साग्रेषु तलयोरपि पृष्ठयोः | न्यस्य हृदादिमुद्राभिर्हृदयादिषु विन्यसेत् | तथा | मूर्द्ध्नि नेत्रे च जिह्वायां हृन्नाभिशिरजानुषु | विनायकादिविघ्नेशान् चरणाग्रे च विन्यसेत् | विनायको विरूपाक्षः क्रूरकर्मापराजितः | चण्डवेगो हयग्रीवः करालश्चण्डविक्रमः | तथा | सकण्ठांशेषु तेष्वेव विन्यसेत् साधकोत्तमः | विघ्नो विनायको वीरः शूरो वदन एव च | गजवक्त्रस्ततः पश्चादेकदन्तस्ततः परम् | लम्बोदरः क्षिप्रसंज्ञो महागणप एव च | ब्रह्माण्याद्यास्तथा मातॄरसिताङ्गादिभैरवान् | शक्तिबीजादिकांश्चाष्टौ निजस्थानेषु विन्यसेत् | भालदोःस्तनपार्श्वेषु जठरे दक्षपार्श्वके | दक्षकण्ठापरगले हृदयेषु यथाक्रमम् | एवं न्यासं विनिर्वर्त्त्य ध्यानं कुर्यात् समाहितः | सिद्धिलक्ष्मीसमाश्लिष्टपार्श्वमर्द्धेन्दुशेखरम् | आरक्तवर्णं मातुलुङ्गगदापुण्ड्रेक्षुकार्मुकम् | शूलं सुदर्शनं शङ्खं नीलोत्पलं धान्यमञ्जरीम् | निजदन्ता रत्नघण्टा परिन्द्रपाण्येकादशकम् | प्रभिन्नकटमानन्दपूर्णमशेषध्वं सकरं विघ्नेश्वरं दशभुजं ध्यायेदिति केचित् | अथ ध्यानं प्रवक्ष्यामि व्याप्तिसंसारदेहतः | क्ष्मापदं खतनुत्रये जठरं पवनाक्षरम् | रवीन्दुवह्निनयनं दशाशाश्रवणद्वयम् | प्रधानशीर्षं भूतेशं बुद्धीन्द्रियविचेष्टितम् | अनादिनिधनं दिव्यं तेजोराशिमनामयम् | ध्यायेद्देवं गणेशानं सच्चिदानन्दविग्रहम् | एवं व्याप्तिं समाख्याय साकारं ध्यानमुच्यते | अनाकुलमना मन्त्री भावयेदिक्षुसागरम् | तत्र मध्ये समासीनं गजवक्त्रं त्रिलोचनम् | प्. ५९७) एकदन्तं दशभुजं कम्ब ग्रीवं महोदरम् | पद्मस्थदक्षचरणलम्बिमध्यपदाम्बुजम् | तरुणादित्यसङ्काशं पीताम्बरसमावृतम् | सन्ध्यारुणकपर्दान्तसौवर्णाभरणान्वितम् | शशाङ्कार्द्धकृतोत्तंसंनागयज्ञोपवीतिनम् | रत्नौघहारोल्लसितविशालवरवक्षसम् | मणिमुक्ताप्रबालाट्यं कटिसूत्रपरिष्कृतम् | किङ्किणीमालया बद्धवामजङ्घाविराजितम् | दक्षाधो हस्तमारभ्य धारया लम्बमानया | गदाशूलवर्त्तिकद्रुविषाणान् दक्षिणैर्भुजैः | शाल्यग्रपाशचक्रेक्षुचयसंबीजपूरकान् | बीजपूरगदामिक्षुचापशूलसुदर्शनान् | अब्जपाशोपलव्रीहिविषाणानपरे विदुः | वामेऽङ्गधरमञ्जीरविलसच्चरणाम्बुजम् | वामाङ्गसंस्थया शक्त्या सर्वालङ्कारयुक्तया | अम्भोजकरयाश्लिष्टं सर्वैश्वर्यमुखप्रदम् | लीलया रत्नकलसं पुष्कराग्रे निधाय च | परितः साधकं शश्वद्वर्षन्तं रत्नवर्षणैः | प्रोच्छलत्कर्णतालेन मदलोलुपषट्पदान् | निर्वासयन्तं सततं देवासुरनिषेवितम् | वीरनादोद्धतोद्गीतैः स्तोत्रैः सम्पूर्णमानसः | देवं महागणेशानं ध्यात्वा साधकपुङ्गव इति | अस्य यन्त्रकरणमपि तत्रैव || कुसोदेनाम्बुकस्तूरीचन्द्रचन्दनकुङ्कुमैः | आलिख्य हेमसूच्या वा दूर्वाकाण्डेन वा लिखेत् | पद्मं संलिख्य मतिमान् समरेखं सुशोभनम् | स्थापयेत् कनके पीठे तदभावे विचक्षणः | श्रीपर्णोसम्भवे वाथ चतुरस्रे सुनिर्मिते | पूर्वं स्ववामेतरयोरिष्ट्वा गुरुगणेश्वरौ | तयोराज्ञां समासाद्य पीठपूजामुपक्रमेत् | आधारशक्तिं चानन्तं कूर्मवत् पृथिवीं क्रमात् | उपर्युपरि सम्पूज्य पश्चाद्दिक्ष्वन्तरादिभिः | सिंहासनन्तु मनुभिः पूजयेच्च यथाक्रमम् | आधारशक्तिरासीना शुक्लाभरणभूषिता | ध्यातव्या धवलप्रेक्ष्या लोकान् धत्ते शिवाज्ञया | तत्त्वैर्धरादिविद्यान्तैर्द्वात्रिंशत्संख्यकैरिह | पीठाकारै ह्यनन्तः स्यादनन्तासनमीरितम् || तथा | धर्मं ज्ञानञ्च वैराग्यमैश्वर्यञ्च चतुष्टयम् | प्. ५९८) एतत् सिंहासनपदे चतुष्टयमिति कल्पसूत्रटीकाव्याख्यानम् | पीठाग्नेयादिपादेषु चतुर्ष्वपि यथाक्रमम् | अधर्मादिचतुष्कञ्च पूर्वाद्याशाचतुष्टये | धर्मं रक्तं वृषाकारं सिंहं ज्ञानञ्च मेचकम् | भूताकारन्तु वैराग्यमैश्वर्यं सितमैन्दवम् | ईशाः स्युः कनकमणिपीठे धर्मादयः क्रमात् | तथा | सत्त्वं रजस्तमश्चैव तत्पीठकमलोपरि | मायाञ्च शूलिकाकारां विद्यां प्रच्छदरूपिणीम् | उपर्युपरि सम्पूज्यमानन्दं लिपिपङ्कजम् | तन्मध्ये पूजयेन्मन्त्री तदूर्ध्वे मण्डलत्रयम् | दलेऽर्कमण्डल पश्चात् केशरे सोममण्डलम् | कर्णिकायां ततः पश्चात् पूज्यं वह्नेश्च मण्डलम् | प्रणवावयवार्णाद्यैरर्च्चयेन्नामभिः क्रमात् | ब्रह्मविष्ण्वीश्वरा भाव्याः क्रमशो मण्डलत्रये | आत्मानमन्तरात्मानमुपर्युपरि पूजयेत् | पीठशक्तीः केशरेषु मध्ये प्रागादितः क्रमात् | पाशाङ्कुशकरा ध्येया नवकुङ्कुमसन्निभाः | तीव्राद्याः पूजनीयाः स्युः शक्तयो मणिभूषणाः | तीव्रा च ज्वालिनी नन्दा भोगदा कामवर्द्धिनी | उग्रतेजोवती सत्या नवमी विघ्ननाशिनी | सर्वशक्तिपदं चोक्त्वा कमलापदमुच्चरेत् | सनायेति नमोऽभ्यर्च्य गन्धपुष्पाक्षतैः शुभैः | समाप्तिपीठं तन्मध्ये मन्त्री पूर्वत्रयं क्षिपेत् | ततः पूरकयोगेण मूलं संयोज्य मानसम् | तत्रस्थजीवचैतन्यमुन्नीय हृदयाम्बुजे | पूर्वोक्तविधिनोपेतमिच्छया श्रीगणेश्वरम् | सर्वोपचारैराराध्य प्रसन्नं पुरुषं पुनः | स्वतेजोरूपतां नीत्वा तत्तेजः संयतेन्द्रियः | मन्त्रकाण्डं समुन्नीय तत्र पाण्डरपङ्कजे | तेजस्तत्त्वं सुमञ्चिन्त्य मन्त्री निश्चलमानसः | कोदण्डस्थानमानीय पुष्पपूर्णकराम्बुजौ | निःसार्य प्रवहन्नाड्या पूजिते पीठपङ्कजे | मध्ये मूर्तिञ्च गायत्र्या विद्या देहं तदन्तरे | बीजेन परचैतन्यतन्मूर्त्तिं हृदयाम्बुजे | महागाणपतीत्युक्त्वा मूर्त्तये नम इत्यर्थः | गणेशमावाहयामि विद्या देहञ्च मूलतः | प्. ५९९) तथैव परचैतन्यं मन्त्रज्ञः साधकोत्तमः | श्रीदेशिकोक्तमार्गेण सम्यगावाहयेत् सुधीः | तत्त्ववर्णान्न्यसेन्मूर्तौ विद्यादेहे ततः परम् | न्यासं सर्वं प्रविन्यस्य प्राग्वद्ध्यात्वा समर्चयेत् | तत्र चैतन्यमापाद्य पञ्च मुद्राः प्रदर्शयेत् || तद्यथा || स्थापनं सन्निधानञ्च सन्निरोधावगुण्ठने | अमृतीकरणं पश्चादेता मुद्राः प्रकीर्तिताः | सर्वज्ञता च हृदये ततस्तृप्तिः शिवे पुनः | अनादिबोधञ्च शिखा शस्त्रं चानन्तशक्तितः | एतैर्जातियुतैरङ्गैरुपदेशविधानतः | हृदयादिषु विन्यस्य मूलेन व्यापकं न्यसेत् | गणेशमुद्राः सन्दर्श्य परिपूर्णं गणेश्वरम् | ध्यात्वा पुष्पाञ्जलिं कुर्वन् विज्ञाप्य स्वागतं पुनः | पाद्यादीनुपचारांश्च मन्त्री सम्यक् समाचरेत् | आसनं स्वागतञ्चार्घ्यं पाद्यमाचमनीयकम् | मधुवर्काचमनस्नानवसनाभरणान्यपि | सुगन्धिसुमनोधूपदीपनैवेद्यवन्दनम् | प्रयोजयेद् गणेशाय उपचारांस्तु षोडश | पाद्यादयो नैवेद्यान्ता उपचारा दश क्रमात् | गन्धादयोनैवेद्यान्ता पूजा पञ्चोपचारिका | सपर्या त्रिविधा प्रोक्ता तासामेकां समाचरेत् | गन्धपुष्पाक्षतयवकुशाग्रतिसर्षपाः | दूर्वा चेति क्रमादर्घ्यं द्रव्याष्टकमुदीरितम् | पाद्यं श्यामाकदूर्वाब्जविष्णुक्रान्ताभिरुच्यते | जातीलवङ्गकक्कोलैर्युतमाचमनीयकम् | मधुपर्कञ्च सक्षौद्रं घृतं दधि समीरितम् | शुद्धाभिरद्भिर्विहितं पुनराचमनीयकम् | चन्दनागुरुकर्पूरकाश्मीरकपिरोचना | जठामांसौ च चोरश्च एतद् गन्धाष्टकं स्मृतम् | चन्दनागुरुकर्पूरपङैर्गन्ध इहोच्यते | करवीरोत्पलद्वन्द्वविजयाकुसुमानि च | पुन्नागनागचम्पानि कुन्दमन्दारकाणि च | बन्धुजीवजवानुश्रीरमानिम्बकुरण्टकैः | पाटलाशोकमदनजातिकुञ्जापराजितैः | नन्ध्यावर्त्तादिपूर्वाणि ह्यद्यान्यन्यानि यानि च | आगमोक्तानि पुष्पाणि गणेशस्य प्रियामि च | मुकुलैः परितो म्लानै जीर्णैर्वा किमिदूषितैः | प्. ६००) आघ्रातैरङ्गसंस्पृष्टैर्न च पर्युषितैरपि | सद्गुग्गुल्वगुरूशीरसिताज्यमधुचन्दनैः | साराङ्गारविनिक्षिप्तैर्मन्त्रीं नीचैः प्रधूपयेत् | गोसर्पिस्तिलैलेन वर्त्त्या कर्पूरगर्भया | दीपितं सुरभिं शुद्धं दीपमुच्चैः प्रदर्शयेत् | असितेन सुगन्धेन ससर्पिषा सितौदनम् | समकदलमध्वाज्यदुग्धादीनि निवेदयेत् | ततो देवस्य विज्ञाप्य स्नानं नम इतीरयेत् | केशप्रसाधनाभ्यङ्गोद्वर्त्तनोष्णोदकानि च | महागणपते ! पाद्यं नम इत्येव पादयोः | तद्वदाचमनीयञ्च स्वधेति त्रिर्मुखे ददेत् | अर्घ्यं स्वाहेति शिरसि मधुपर्कं स्वधा तथा | पुनराचमनं पुष्पं मौलौ परिशिखाणुना | पञ्चगव्यं तथा षष्ठं गन्धोद्वर्त्तन मेव च | सुगन्धामलकीगन्धस्तीर्थोदकमनन्तरम् | दिव्यगन्धानुलेपञ्च मूलमन्त्राभिमन्त्रितैः | सुगन्धलोहितैस्तीर्थतोयैरप्यभिषेचनम् | आदर्शदर्शनं चान्यमङ्गलाचरणानि च | दिव्यांशुके ततः पश्चान्मुकुटानि च कल्पयेत् | सम्बोध्य मुखमाकल्प्य कल्पयामीत्युदीरयेत् | सङ्कल्प्य पूर्ववन्मन्त्री पाद्यादित्रिकमाचरेत् | सगन्धाक्षतपुष्पाणि धूपञ्च स्वस्वमुद्रया | हृदयादिकवचान्तैस्तु मनुभिः क्रमशोऽर्चयेत् | कृत्वा लयञ्च पूजाञ्च मन्त्रञ्चाक्षरसंख्यया | जप्त्वावरणपूजान्तं देवं विज्ञाप्य तत् पुनः | अङ्गानीष्ट्वा ततो मन्त्री वाह्यावरणमर्च्चयेत् | लोकपालास्ततः पूज्याः समस्तचतुरस्रकैः | पुरुहूतेशयोर्मध्ये रक्षोवरुणयोस्तथा | ब्रह्मविष्णुशिवादीनि सदा शयया विधोर्मुखे | पुरन्दरादिलोकेशाः सजात्यधिगहेतवः | सवाहपरिवारान्ताः प्रयोक्तव्या मनीषिभिः | गुर्वाद्या लोकपालान्ता ये मन्त्रास्ते ध्रुवादिकाः | स्वस्वबीजान्विताः सर्वे सचतुर्थीनमोऽन्तिकाः | एवमावरणं पूज्य प्रसूनैः कुन्दसम्भवैः | पुनर्देवञ्च मूलेन सम्यग्गन्धादिभिर्यजेत् | जयध्वनि ! ततो मन्त्रमातः ! स्वाहेत्युदीर्यय च | अभ्यर्च्य वादयन् घण्टां महापञ्चमहारवैः | प्. ६०१) वनस्पतीति मन्त्रेण स्वाहान्तेन स्वमुद्रया | सुप्रकाशेति मन्त्रेण नमोऽन्तेन स्वमुद्रया | स सर्वान्नमृतीकृत्य गणेशमनुपूर्वकम् | सनैवेद्यं गृहाणान्ते स्वाहेत्युक्त्वा स्वमुद्रया | मुद्रयोदकदानेन मन्त्री सर्वं निवेदयेत् | देवं सपरिवारञ्च परितृप्तं विभाव्य च | तथा | अथ नित्यविधिं कुर्वन् पुरश्चर्यां समाचरेत् | गुरुणा दीक्षितो मन्त्री पूर्ववच्च सुसंयुतः | चतुर्लक्षञ्च सचतुश्चत्वारिंशत्सहस्रकम् | मनुमेनं जपेत् प्राज्ञः पुरश्चरणसिद्धये | मौलिनिश्चलकण्ठौष्ठजिह्वादृगक्षयन्त्रितः | नासातालुगलज्जिह्वासृक्कणीनां समालिहन् | किञ्चिदुन्नतकग्रीवः किञ्चित्सङ्कोचितेक्षणः | नासाग्रदत्तदृष्टिः सन् दन्तैर्दन्तान्न संस्पृशेत् | तच्चित्तस्तद्गतप्राणस्तन्निष्ठस्तत्परायणः | वाचिकेनोपांशुना च मानसेनाथवा सुधीः | चतुःसहस्रं सचतुश्चत्वारिंशत्तमं यथा | अष्टोत्तरसहस्रं वा हरिष्याशी जितेन्द्रियः | यत्संख्यया समारब्धं तन्मानं पूर्णतां नयेत् | यदि न्यूनाधिकं कुर्याद्व्रतभ्रष्टो भवेन्नरः | तस्मात्समं जपेत्तावद्यावत् संख्या समाप्यते | दशांशं तर्पणं कुर्यात् साधकेन्द्रोऽनुशासनम् | इत्थं जपे तु सम्पूर्णे होमं कुर्याद्दशांशतः | पूर्वोक्तैस्तर्पणाद्यैश्च सह भक्तिपरायणः | वक्ष्यमाणक्रमेणैव कर्मानुगुणसंख्यकान् | साङ्गाय भोजयेदङ्गान् ब्राह्मणान् हृष्टमानसान् | गुरवे दक्षिणां दद्याद् यथावित्तानुसारतः | सम्प्राप्त गुरुकारुण्यः पश्चान्मन्त्रविदां वरः | प्रजपेच्चतुरावृत्त्या यद्वा नित्यं स्वशक्तितः | कुर्याद्यथावत् पूजादि होमेनातिप्रयत्नतः | वित्तशाठ्यं विना नित्यं मन्त्री विघ्नेश्वरं भजन् | निर्विघ्नं वत्सरादर्वाक् महतीं श्रियमश्नुते | यद्यग्निकार्यसम्पत्तिर्बलेः पूर्वं विधानतः | विधिना संस्कृते वह्नौ कुर्यात् पूर्वक्रमेण च | पर्ययन्तैश्च हुत्वा मन्त्रासनवानद्य त्रिवारं सन्तर्प्येति | प्. ६०२) योग्यैरिति तत्तन्मन्त्रानुष्ठानपरैः | प्रयोगा अपि तत्रैव | इत्थं सिद्धमनुर्मन्त्री काम्यकर्म्माणि साधयेत् | वक्ष्यामि काम्यकर्माणि साधकानां हिताय वै | शास्त्रोक्तैव मार्गेण संक्षेपात् न तु विस्तरात् | स्वहृत्पद्मे गणेशानं कुन्देन्दुधवलप्रभम् | शुक्लालङ्कारसम्पन्नं भावयेद् यो निरन्तरम् | भारती तस्य वक्त्राब्जे शास्त्रौघोद्धारसुन्दरी | नित्यं प्रकाशते सत्यं दिव्यज्ञानप्रदायिनी | न निरस्येद्गणेशानं सिन्दूरसदृशप्रभम् | पाशाङ्कुशधरं ध्यात्वा यो जपेन्मन्त्रिमत्तमः | अनङ्गरससम्पन्नातमभ्येति वराङ्गना | पाशाङ्कुशवराभीतं हिमकुन्देन्दुसन्निभम् | अनवद्यमदीनाभं स्फुरन्माणिक्यमण्डनम् | यः स्मरेत्तस्य वशगा भवन्त्यपि वराङ्गनाः | विवादेषु गणेशानं ज्वलदग्निसमप्रभम् | प्रतिवादिमुखे ध्यायन् प्रजपेन्मनसा मनुम् | तन्मुखं स्तम्भयेदाशु वादी दीनोऽपि नान्यथा | अङ्गुष्ठमानं हृत्पद्मशुद्धस्फटिकसन्निभम् | चिन्तयित्वा गणेशानं चिदम्बरसुधारसम् | अभिषिच्य सुरश्रेष्ठं सततं धरणीतले | सर्वरोगविनिर्मुक्तश्चिरकालं स जीवति | शुक्लवर्णं गणेशानं दशबाहुमदोत्कटम् | शुक्लाम्बरधरं सौम्यं चिच्छशाङ्कामृतप्लुतम् | भावयेद्धृदयाम्भोजे नित्यं निर्म्मलमानसः | मन्त्री गरुडवत् सद्यस्त्रिविधं हरए विषम् | स्वर्णार्थी मधुना नित्यं वश्यार्थी पायसैर्हुमेत् | घृतेन लक्ष्मीसम्प्राप्त्यै हुमेत् शर्करया तथा | आयुषे चार्थसम्पत्त्यै दध्ना च जुहुयात् सुधीः | अन्नेन चान्नसम्पत्त्यै द्रव्याप्त्यै तिलतण्डुलैः | लवणैरप्यनावृष्ट्यै वृष्टिकामस्तु वेतसैः | सौभाग्यार्थी तथा लाजैः कुसुम्भैश्चापि सूदनैः | वशिने जुहुयात्पद्मैराजानं वशमानयेत् | तत्पत्नी विपुलैर्व्यक्तैरमाद्यन् कैरवैः शुभैः | अश्वत्थोडुम्बरप्लक्षन्यग्रोधजसमिद्धुतात् | विप्रक्षत्रितयविट्शूद्राः सद्यो वश्या भवन्ति वै | प्. ६०३) स्त्रीणां प्रतिकृतिं कृत्वा पिष्टेन प्रतिवासरम् | साज्याहुत्या स्त्रियस्तस्य वशमायान्ति नान्यथा | जपित्वा तु मन्त्रराजं लयो विधिमनोहरम् | दशांशं जुहुयान्मन्त्री राजिकालवणेन च | तद्भस्म वामहस्तेन गृहीत्वा ताडयेत् स्त्रियम् | समागच्छति सा नारी मदनालसितेक्षणा | तद्वच्च प्रयजेदेनं पीतपुष्पैश्च मन्त्रवित् | स्तम्भयेद्रिपुसैन्यञ्च सामात्यबलवाहनम् | प्रतिवादी भवेन्मूको मन्त्रस्यास्य प्रभावतः | स्तम्भयेत् पञ्च दिव्यानि नात्र कार्या विचारणा | विभीतकसमिद्भिस्तु नियतं जुहुयात् सुधीः | सम्यगुच्चाटयेत् शत्रून् स्वस्थानात्तु न संशयः | मेरुमन्दरतुल्योऽसावुच्चाटयति नान्यथा | ग्रामे युद्धे पुरे वापि इमं स्तुत्वा तु होमयेत् | उच्चाटयति वेगेन मानुषेषु च काकथा | निम्बपत्रे समालिख्य रिपोर्नाम प्रयत्नतः | गोऽश्वमाहिषरक्तेन निम्बतैलेन संयुतम् | एकान्ते च कृते होमे विंशत्साहस्र्यसंख्यया | द्विष्टो भवति लोकेषु स साक्षान्मन्मथो यदिः | मानुषास्थिमयं कीलं सम्यगष्टाङ्गुलं मितम् | मृतकेशैस्तु संवेष्ट्य सहस्राष्टाभिमन्त्रितम् | कुलिकोदयवेलायां शत्रुद्वारे खनेद्भुवि | सप्ताहान्मरणं तस्य भावयेन्नात्र संशयः | अथ वक्ष्यामि संक्षेपात् कुमार्या वेशनक्रमम् | सुगुप्ते विजने देशे गोमयेनोपलेपयेत् | आचार्यः प्रयतो भूत्वा सुस्नातो विजितेन्द्रियः | नवकुम्भं समादाय शुद्धकुम्भेन पूरयेत् | नवं शरावमानीय कपिलाघ्टपूरितम् | कुम्भोपरि समारोप्य दीपं प्रज्वालयेत्ततः | शताष्टमन्त्रजापेन कुमारा वा कुमारिकाः || अतीतानागतञ्चैव वर्त्तमानञ्च यद्भवेत् | शुभाशुभानि सर्वाणि पश्यन्ति नात्र संशयः | सम्यग्ध्यात्वा गणेशानं गते यामे जपेन्निशि | शुभाशुभानि कर्माणि कथयन्ति न संशयः | कन्यकार्थी शुचिर्भूत्वा मन्त्रराजं गणेशितुः | जप्त्वा दशसहस्राणि जालरक्ताश्वमारजैः | प्. ६०४) पुष्पैर्दशांशहवनात्तां कन्यां लभते ध्रुवम् | वक्ष्यामि भूमिपालानां गजसम्पादनक्रमम् | मातङ्गाब्धिमहीपालः कारयेत्तद्वनान्तरे | अवटं विपुलं ध्यात्वा तत स्तन्निकटे गुरुः | पूर्वोक्तलक्षणयुते मण्डपे सुमनोहरे | वेदिकोत्तरतः कुण्डं वेदास्रं कारयेच्छुभम् | वेदिकोर्द्धे गणेशानमावाह्यात्यन्तमन्त्रवित् | सुपक्वफलतोयैश्च सिद्धान्नञ्च निवेदयेत् | तस्या मया ततो मन्त्री वह्निमाधाय पूर्ववत् | अष्टद्रव्यैस्त्रिमध्वक्तैश्वत्वारिंशत्सहस्रकैः | चतुःसहस्रैः सचतुश्चत्वारिंशच्चतुःशतम् | पृथग्द्रव्यं यथासंख्यं जुहुयात् पञ्चवासरम् | द्विजोत्तमैरनुजपं कारयेत्तन्त्रमन्त्रवित् | गणेश्वरप्रसादेन चत्वारिंशद्दिनान्तरे | पतन्ति कनकाभास्ते कलभीता महावटे | ब्राह्मणान् भोजयेन्नित्यं स्वादूक्तभोज्यवस्तुभिः | तद्ब्राह्मणकृताशीर्भिर्वर्द्धतेऽसौ महीपतिः | तेषाञ्च गुरवे दद्याङ्गजपञ्चाशद्दक्षिणाम् | तत्प्रमाणाद्दशांशं वा तद्विक्रीतधनानि वा | मिथुनादिदिगीशान्तैर्मन्त्रैराज्येन देशिकः | स्नात्वा देवं समभ्यर्च्च्य होमं सम्यक् समापयेत् | पुनर्निवेद्य मुहूर्ताशेषं पूर्ववदाचरेत् | पुनः पुष्पाञ्जलिं दत्त्वा मन्त्री स्वहृदयाम्बुजे | गणेश्वरं समुद्वास्य वह्निमुद्वासयेद्गुरुः | होमोपकरणं सर्वं गुरवे शुद्धचेतसा | समर्पयित्वा भूपालो भूयोभूयः प्रणम्य च | अन्यैराभरणाद्यैश्च पट्टवस्त्रादिभिः शुभैः | गुरुं सन्तोषयेत् सम्यग् गजानामतिवृद्धये | अयं राजन्यवर्गैश्च राष्ट्रेण सह वर्द्धते || अथातः सम्प्रवक्ष्यामि महालक्ष्म्यादिसाधनम् | मनोज्ञे विजने देशे सर्वबाधाविवर्जिते | शुक्लवस्त्रपरीधानः शुक्लमाल्यानुलेपनः | कृतनित्यक्रियो मन्त्री वह्निमाधाय पूर्ववत् | पुण्डरीकैस्त्रिमध्वक्तैरुत्पलं पञ्च पञ्चधा | श्रीफलैर्बद्धलक्षञ्च मध्वाज्य क्षीरसंयुतैः | प्. ६०५) शुक्लप्रतिपदि प्रातर्हुमेदेकाग्रमानसः || अक्षयां महतीं लक्ष्मीं सम्प्राप्नोति न संशयः | उक्तप्रतिपदमारभ्य मातृन्यासमुपास्य च | चतुर्थ्यां श्रीगणेशस्य महापूजां विधाय च | पूर्वद्रव्यैस्त्रिमध्वक्तैः शुक्लपक्षस्य पक्षतौ | पक्षतौ प्रतिपदि | अष्टोत्तरञ्च लक्षञ्च यावत्कालेन पूर्ययते | तावत्कालं हुमेदेवं साधकश्च प्रसन्नधीः | होमावसाने लक्ष्मीं स्वांनिधिं पश्यति स ध्रुवम् | आदित्याभिमुखस्तिष्ठन्नूर्द्धबाहुर्वहिर्मुखः | लक्षजापादसौ मन्त्री महाधनमवाप्नुयात् | क्षीराज्येन स दूर्वाभिः सहितञ्च दिने दिने | स्वजन्मदिवसे वापि प्रातःकाले हुमेन्नरः | अरोगी जितमृत्युश्च दीर्घायुर्भुवि जीवति | ब्राह्म्ये काले विशुद्धात्मा पूर्णे चन्द्रे च पर्वणि | कापिलं गोमयं शुद्धं पद्मपत्रेण च स्थले | मन्त्रेणायुतसञ्जप्तं गृहीत्वा निखनेदुभुवि || भयं न विद्यते तत्र भूतचौरादिपन्नगैः | पूर्वं महागणेशानं प्रत्यहं जुहुयात् सुधीः | वेतालसिद्धकुलिकान् कुण्डमध्यात् समुद्धृतान् | साधकेन्द्रो महाभागान् सर्वदा लभते भुवि | एवं सिद्धाञ्जनं खड्गः पादुकादिश्च दुर्लभः | कदाचित् साधकेन्द्रस्य नास्त्यस्य भुवनत्रये || अथातः सम्प्रवक्ष्यामि यन्त्रराजं गणेशितु.उ | सुसमे भूतले शुद्धे गन्धाद्यैः सुपरिष्कृते | कामक्रोधविनिर्मुक्तः पूर्ववन्न्याससंयुतः | सम्पूज्य देवदेवेशं गणेशं शङ्करात्मजम् | भूर्जेऽक्षेमे तशपरैर्मन्त्रराजं समुद्धरेत् | कस्तूरी रोचना चन्द्रः काश्मीरं चन्दनं रसः | गोशकृद्रससंयुतैर्मातङ्गमदमिश्रितैः | सर्वैश्च सुसमैरेभिः प्राणमापूर्य संलिखेत् | लेखन्याहेमसूच्या वा जाती काष्ठेन दूर्वया | षट्त्रिंशत्कोणमष्टारं द्वादशारं ततः परम् | कवर्गादीनि गायत्र्या वर्णान्यपि लिखेद्वहिः | महाभूमण्डलं कुर्याद्गजाष्टकविभूषितम् | तद्वाह्ये वारुणं कूर्ममण्डलं ननताशुभम् | प्. ६०६) कर्णिकायां लिखेन्मन्त्री हक्षी प्रणववेष्टितौ | अङ्गानि च षट्कोणेषु लक्ष्मीमनुं दले लिखेत् | द्वादशारे लिखेच्छक्तिं विना नपुंसकस्वरम् | स्वरवर्गं कलापत्रे ततश्चाष्टदलाम्बुजे | कादिमान्ताक्षरञ्चापि सर्वं पूर्वादितो लिखेत् | पुनः पार्श्वककोणेषु वा समार्णं समालिखेत् | एतद्यन्त्रं समाख्यातं न देयं यस्य कस्यचित् | शिवेन कथितं पूर्वं सर्वविघ्नोपशान्तये | त्रिलोहवेष्टितं कृत्वा प्राणस्थापनकर्म च | मन्त्रेणाप्यमृतं जप्तं यन्त्रं यो धारयेन्नरः | तस्य विघ्नाश्च रोगाश्च सर्वे नश्यन्त्युपद्रवाः | राजानो वशमायान्ति संक्षुभ्यन्ते परस्त्रियः | सिंहादिदुष्टसत्त्वाश्च चौराहिमदहस्तिनः | द्विजादिसर्ववर्णाश्च बलवन्तोऽपि शत्रवः | तस्य दर्शनमात्रेण वशमायान्ति ते सदा | ततः प्रवर्तते वाणी संस्कृतप्राकृतादिका | छत्त्रचामरकोटीरमालायष्ट्यादिसङ्कुला | स्वयमेव महालक्ष्मीर्बलेन सेवते चिरम् | वर्णितुं यन्त्रवर्गस्य प्रभावं नैव शक्यते | अनेन मनुनाऽसाध्यं नास्ति तद्भूतलेऽपि || आकर्षणं प्रवक्ष्यामि यन्त्रेणानेन योज्यताम् | पूर्वं यन्त्रं समालिख्य रक्तद्रव्यैः सुशोभनैः | अनामारक्तसंमिश्रैः साध्यनाम च संलिखेत् | रक्तैः पुष्पैः समभ्यर्च्य रक्तचन्दनमिश्रितैः | मधूच्छिष्टप्रतिकृतेः कुक्षौ यन्त्रं निधाय च | समीरणं प्रतिष्ठाप्य यथावन्मन्त्रवित्तमः | कपिलाघृतदीपेन चतुष्कोणं प्रतापयेत् | यावत् स न विलीयेत तथैव दिवसत्रयम् | सप्ताहाद्दिवसे नारी यदि साक्षात्तिलोत्तमा | जपन्नष्टशतं मन्त्रं तापयित्वा तु धारयेत् | तस्यैषा प्राणपर्यन्तं वशे तिष्ठति दासवत् | शिलापट्टे लिखेद् यन्त्रं पीतद्रव्यैः समाहितः | अर्कपत्रेषु संस्थाप्य पीतपुष्पैः समर्च्च्य च | संवेष्ट्य पीतवस्त्रेण स्तम्भयेदायुधान्यपि | प्. ६०७) न दानवग्रहांश्चौरान् सेनां संस्तम्भयेदपि | आनीय जीवयोरक्तमकारणविरोधिनोः | गणकः स्यादृषिश्छन्दो निवृद्विघ्नोऽस्य देवता || गकारो बीजं विन्दुः शक्तिः || गणेशगायत्री | एकदंष्ट्राय विद्महे वक्त्रतुण्डाय धीमहि तन्नो विघ्नः प्रचोदयात् | श्मशानाङ्गारसंयुक्तं कृत्वा तेन चितापुटे | काकपक्षेण संलिख्य साध्याख्यां कर्म्मसंयुताम् | एकलिङ्गध्वजे क्षिप्तं यन्त्रमुच्चाटयेद् ध्रुवम् | लोकाद्विद्वेषणञ्चापि कुरुते नात्र संशयः | श्मशानकर्पटे यन्त्रं मानुषास्थिशलाकया | विषवृक्षोद्भवेनापि चिताङ्गारेण कर्मवित् | क्रोधो भूत्वा समालिख्य श्मशाने निखनेद्भुवि | सप्ताहात् म्रियते शत्रुर्नात्र कार्या विचारणा | एतदुद्धृत्य दुग्धेन क्षालितं सेविं व्रती | सर्वार्थसाधनं चान्यद्ध्यानं वक्ष्ये गणेशितुः | नवजीमूतसङ्काशं भिन्नाञ्जनसमप्रभम् | अष्टादशभुजं देवं मेरुमन्दरसन्निभम् | भीममुखं विरूपाक्षं मेघघोषसमध्वनिम् | रक्ताम्बरपरीधानं नागयज्ञोपवीतिनम् | नानारत्नसमुद्दीप्तं कोटीराभरणोज्ज्वलम् | शक्तिञ्च परशुं शक्त्या धृततोमरतर्जनम् | दन्तपद्मगतं पाशमञ्कुशञ्चेक्षुकार्मुकम् | स्वपुष्पवाणशाल्यग्रं पात्रं मोदकपूरितम् | कुण्डिकामक्षमालाञ्च साभयं वरदं शुभैः | स्वपुष्करेण कलसं दधानं द्विरदाननम् | पद्मासनस्थं देवेशं सर्वदेवैर्नमस्कृतम् | इत्थं सञ्चिन्तयेन्मन्त्री सर्वोपद्रवशान्तये | वश्याकृष्टिविधौ रक्तं पीतं स्तम्भनकर्मणि | धूमाभं द्वेषणोच्चाटे कृष्णाभं मारणे रिपोः | स्वर्णाभं धनदं विद्याच्छुक्लं ज्ञानप्रदं भवेत् | इत्येवं चिन्तयेत् प्राज्ञस्तत्तत्कर्मसमाप्तये || शारदातिलके त्रयोदशपटले || पञ्चान्तकं शशिधरं बीजं गणपतेर्विदुः | पञ्चान्तको गकारः | शशी विन्दुस्तद्युक्तम् | अथवा शशी विसर्गः | शक्तिर्निशाकर इत्युक्तेः | गोपनायैवमुद्धारः | प्. ६०८) इदं द्वयमुत्तरगार्ग्योक्तं पूजाप्रयोगादिकमुभयोः समानमिति राघवभट्टः | केचिदौकारयुक्तमाहुः | उक्तञ्च प्रयोगसारे | बीजमिन्दुमदौ युक्तं कतृतीयं तथैव च | इति | षड्दीर्घभाजा बीजेन षडङ्गानि प्रकल्पयेत् | सिन्दूराभं त्रिनेत्रं पृथुतरजठरं हस्तपद्मैर्दधानं दन्तं पाशाङ्कुशेष्टान्युरुकरविलसद्वीजपूराभिरामम् | अर्द्धेन्दुद्योतमौलिं करिवरवदनं बीजपूरार्द्रगण्डं भोगीन्द्राबद्धभूषं भजत गणपतिं रक्तवस्त्राङ्गरागम् || राघवभट्टस्तु ध्यानानन्तरं दर्शनीयमुद्रामाह यथा | मुखात् प्रलम्बितं हस्तं कृत्वा सङ्कुचिताङ्गुलिम् | मध्यमातर्जनीगताङ्गुष्ठं वाऽधस्तु मध्यमम् | कुर्यान्मुद्रा गणेशस्य प्रोक्तेयं सर्वसिद्धिदा | यद्वा | तर्जनीमध्यमासन्धिनिर्गताङ्गुष्ठमुष्टिका | अधोमुखी दीर्घरूपा मध्यमा विघ्नमुद्रिका || इति | यद्वा | कुञ्चिताग्रस्य हस्तस्य मूले नासानियोगतः | गणेश्वरी भवेन्मुद्रा सर्वसिद्धिप्रदायिनी | इति | इयं सर्वगणपतिमन्त्रसाधारणीति | शारदायाम् || वेद लक्षं जपेन्मन्त्रं दशांशं जुहुयात्ततः | मोदकैः पृथुकालाजैः शक्तुभिश्चेक्षुपर्वभिः | नारिकेलैस्तिलैः शुद्धैः स्पक्वैः कदलीफलैः | अष्ट द्रव्याणि विघ्नस्य कथितानि मनीषिभिः || अत्रार्द्धमर्दनयुतमेकैकेन द्रव्येण होतव्यमिति राघवभट्टः | केचित्तु अष्टद्रव्यमेलनेन होममाहुः | तत्तदाहुतिप्रमाणसन्देहापातात् मूले च प्रत्येकं पृथक् क्रियाद्वयाच्च विशिष्टस्य द्रव्यान्तरत्वेनाष्टद्रव्यहोमकरणासम्भवाच्च | तदुक्तं भद्राचार्यैः | नैव व्रीहिभिरिष्टं स्याद् द्रव्यैर्न च यथा श्रुतैः | मिश्रैरिज्येत चेत्तदा मिश्राणां विध्यदर्शनादिति | नत्वेवं त्रिमधुरहोमे त्रिमधुयुक्तमपि न कार्यमिति चेन्नैवम् | सर्वं त्रिमधुरोपेतं होमद्रव्यमुदाहृतमिति वचनात् | मेलनस्य पशुपुरोडाशाद्यवदानानामप्रस्तावप्रत्युपसारा- ज्यमेलनवदविरोधात् | तदुक्तं गणेशविमर्षिण्याम् | प्. ६०९) अष्टद्रव्यैस्त्रिमध्वक्तैर्जुहुयाच्च पृथक् पृथगिति शुद्धैरित्यनेनावकरं दूरिकृत्य प्रक्षाल्य शोधितैरित्युक्तम् | शारदायाम् | तीव्रादिशक्तियुक्ते च पीठे विघ्नेश्वरं यजेत् | तीव्राख्या ज्वालिनी नन्दा भोगदा कामरूपिणी | उग्रा तेजोवती सत्या नवमी विघ्ननाशिनी || आसां ध्यानं राघवभट्टे | पाशाङ्कुशाञ्जलिकरा नवकुङ्कुमसन्निभाः | तीव्राद्याः पूजनीयाः स्युः शक्तयो मणिभूषणाः | शारदायाम् | सर्वादिशक्तिकमलासनाय हृदयावधि | पीठमन्त्रोऽयमेतेन प्रदद्यादासनं विभोः | मूर्तिं मूलेन सङ्कल्प्य तस्यां विघ्नेशमर्च्चयेत् | कर्णिकायां चतुर्दिक्षु प्रथमं पूजयेदिमान् | यथाक्रमं ततोऽभ्यर्चेत् केशरेष्वङ्गदेवताः | पत्रमध्ये तु विधिवद्वक्रतुण्डादिकान् यजेत् | विधिवदिति गणपतिबीजवदिति राघवभट्टः | वक्रतुण्डमेकदंष्ट्रं महादेवगजाननौ | लम्बोदराख्यं विकटं विघ्नराजमनन्तरम् | धूम्रवर्णं दलाग्रेषु ब्राह्म्याद्याः पूजयेत्ततः | लोकपालांस्तदस्त्राणि देवमित्थं समर्चयेत् | सिद्धमन्त्रः प्रकुर्वीत प्रयोगान् कल्पचोदितान् | नारिकेलैः कृतो होमश्चतुर्थ्यां श्रीप्रदो भवेत् | शुक्लपक्षप्रतिपदमारभ्य विमलः सुधीः | चतुर्थ्यन्तं नारिकेलशक्तुलाजतिलैः क्रमात् | चतुःशतं प्रजुहुयाद्वश्याः स्युः सर्वजन्तवः | वश्यकर्मादौ तु विशेषः | प्रयोगसारनारायणीययोः | साध्यं पाशाङ्कुशाभ्यामिह विधिवदुपानीय तस्योपरिस्थो वश्याकाङ्क्षी जपेत्तं सपदि विधिरयं हन्ति रुष्टस्य रोषमिति | सतिलैस्तण्डुलैर्होमो लक्ष्मीवश्यप्रदो भवेत् | अत्रापि शुक्लप्रतिपदमारभ्य चतुर्थ्यन्तं चतुःशतं होमः | लाजैस्त्रिमधुरोपेतैर्होमः कन्यां प्रयच्छति | अत्र प्रतिपदमारभ्य सप्तमीपर्यन्तं चतुःशतं होमः | तथा च राघवभट्टधृतं मधुरत्रयसिक्ताभिर्लाजाभिः सप्त वासरानिति | अनेन विधिना कन्यावरमाप्नोति वाञ्छितम् | आज्याक्तहविषा होमः साधयेदीप्सितं नृणाम् | प्. ६१०) दध्ना विलोडितैर्लोलैर्होमो मुनिचतुर्दिनम् | प्रतिपदमारभ्य चतुर्थीपर्ययन्तम् | सम्प्रीतिं कुरुते तद्वद्वश्यं वितनुते सदा | श्वेतार्कतरुमूलेन रक्तचन्दनदारुणा | इभभग्नेन निम्बेन दन्तिदन्तेन वा कृतम् | विघ्नेश्वरं समभ्यर्च्य शीताशुग्रहणे जपेत् | स्पृष्ट्वा मन्त्री निराहारस्तं शिखायां समुद्वहन् | युद्वेषु व्यवहारादौ विजयं श्रियमाप्नुयात् | जपस्तु ग्रासाद्विमुक्तिपर्यन्तम् | तथा | मन्त्रेणानेन सञ्जप्य रोचनामदसंयुता || मदो गजमदः || तिलकक्रियया सर्वान् वशं नयति मानवान् | अनुलोमविलोमस्थबीजे नाम समालिखेत् | नवनीते समभ्यर्च्य स्पृष्ट्वा प्राणमनुं जपेत् | अष्टोत्तरशतं भूयो मूलमन्त्रं प्रजप्य तत् | भक्षयेलौहमास्थाय यामिन्यां सप्त वासरान् | स वश्यो जायते शीघ्रं साधकस्य न संशयः | अनुलोमेत्यनेन बीजयोः पुटितत्वमात्रमुक्तं तेन बीजयोर्मध्ये साध्यनाम नवनीते लिखेदिति तात्पर्यम् || गायत्रीतन्त्रे प्रथमब्राह्मणपटले || षोडशैरुपचारैश्च गणेशं पूजयेद् द्विजः | अणिमादिमहामन्त्रैः पूजयेच्छिव नन्दनम् | ध्यात्वा पाद्यादिकं दत्त्वा अणिमादि जपेन्मनुम् | सिन्दूरवर्णसङ्काशं योगपट्टसमन्वितम् | लम्बोदरं महाकायं मुखं करिकरोपमम् | अनिमादिगुणैर्युक्तं अष्टबाहुं त्रिलोचनम् | विजयाविधृतं लिङ्गं मोक्षकामाय पूजयेत् || ओं अं गणपतये स्वाहा | अनेनैव हि मन्त्रेण पूजयेद् गणनायकम् | अणिमाद्यष्टमन्त्रैश्च अष्टबाहुं प्रपूजयेत् || ओं अणिमायै नमः स्वाहा | प्रं प्राप्त्यै नमः स्वाहा | मं महिमायै नमः स्वाहा | ईं ईशितायै नमः स्वाहा | वं वशितायै नमः स्वाहा | कं कामावसायितायै नमः स्वाहा | एवं सम्पूज्य विधिवत् मन्त्रीकामान्प्रयोजयेत् भोजयित्वा विधानेन नानामिष्टफलादिभिः | प्. ६११) परमान्नपिष्टकैरम्यैर्दधिदुग्धघृतादिभिः | दिव्यगन्धमयैः पुष्पैः दिव्यगन्धप्रलेपनैः | मूषिकं पूजयामास नानामिष्टफलादिभिः || ओं मं मूषिकाय गणाधिपवाहनाय धर्म्मराजाय स्वाहा | इत्यनेनैव मन्त्रेण मूषिकं पूजयेत् सदा || अथ हरिद्रागणेशः || तदुत्पत्तिस्तु नारदपञ्चरात्रे दशमाध्याये नारद उवाच | लिपिलम्बोदरस्याथ सम्भवः कथितो मयि | अन्येषां गणनाथानां मूर्तीनां सम्भवं वद || ब्रह्मोवाच || एकदा पार्वती देवी पिष्ट्वा च रजनीं पराम् | पुत्तलीं कारयामास तया देवी हरिद्रया | शङ्करं प्राह सा साध्वी पुत्रं पालय शङ्कर ! | इत्युक्तः प्रियया शम्भुर्वर्द्धयामासतं सुतम् | उवाच परया प्रीत्या शरीरस्य च शोधनम् | तपः कुरु महाभाग ! ततः सिद्धिमवात्म्यसि || ब्रह्मोवाच || श्रुत्वा वाक्यं पितुः श्रीघ्रमुपविष्टः शिवेन हि | जगाम तप्तुं कामाख्यां कामरूपे गिरौ ततः | पञ्चाक्षरीमुग्रतारामाराध्य नियतः शुचिः | प्रत्यक्षत्वमवाप्याशु तया देव्या शिवस्ततः | उवाच प्रेमभावेन तं पुत्रं गिरिजापतिः | चतुर्वर्गप्रदोऽसित्वं साधकानां न संशयः | तथा ब्रह्मा च विष्णुश्च रुद्रश्च परमेश्वरी | यथान्यदेवताः सर्वाश्चतुर्वर्गफलप्रदाः | तथा त्वमसि देवेश ! चतुर्वर्गफलप्रदः | हरिद्रागणनाथेति ख्यातिः सर्वागमादिषु | लिपिलम्बोदरो देवो हेरम्बोऽपि यथा तथा || एतासामपि मूर्तीनां बाल्यावस्था च या स्मृता | उच्छिष्टगणनाथेति सा मूर्त्तिः शास्त्रगोचरे || अथ महागणपत्युपनिषत् | ओं लं स्वाहा नाववतु स्वाहा | नौ भुनक्तु स्वाहा वीरियं करवावहै | तेजस्विनावधीतमस्तु मा विद्विषावहै | ओं शान्तिः शान्तिः शान्तिः | ओं लं नमस्ते गणपतये त्वमेव प्रत्यक्षं त्वमसि | त्वमेव केवलं कर्तासि त्वमेव केवलं धर्त्तासि त्वमेव केवलं हर्त्तासि | प्. ६१२) त्वमेव सर्वं खल्विदं ब्रह्मासि | त्वं साक्षादात्मासि नित्यं ऋतं वच्मि सत्यं वच्मि अव त्वं मामव वक्तारं अव श्रोतारम् अव दातारम् अबालो वाचालमिति | अव शिष्यम् अव पश्चात्तात् अव पुरस्तात् अवोत्तरात्तात् अव दक्षिणात्तात् | अव चोर्द्धात्तात् अवाधराधरात्तात् | सर्वतो मां पाहि पाहि समन्तात् | त्वं वाङ्मयस्त्वञ्चिन्मयस्त्वं ब्रह्म त्वं ब्रह्ममयस्त्वमानन्दमयस्त्वं सच्चिदानन्दाद्वितीयोऽसि | त्वं प्रत्यक्षं ब्रह्मा असि त्वं ज्ञानमयो विज्ञानमयोऽसि | सर्वं जगदिदं त्वत्तो जायते | सर्वं जगदिदं त्वयि लयिष्यति | त्वं भूमिरनलोऽनिलो नभः | त्वं चत्वारि वाक्पाणिपायुपादानि | त्वं गुणत्रयातीतः | त्वं देहत्रयातीतः | त्वं कालत्रयातीतः | त्वं मूलाधारस्थितो नित्यं त्वं शक्ति त्रयात्मिकस्त्वां योगिनो ध्यायन्ति नित्यम् | त्वं ब्रह्मा त्व विष्णुस्त्वं रुद्रस्त्वमिन्द्रस्त्वमनिग्नस्त्वं वायुस्त्वं सूर्ययस्त्वं चन्द्रमास्त्वं ब्रह्म भूर्भुवः स्वरोम् || गणादीन् पूर्वमुच्चार्य वर्णादींस्तदनन्तरम् | अनुस्वारपरतरः अर्द्धेन्दुलसितं तावदूह्यम् | एतत्तव मनुस्वरूपम् | गकारः पूर्वरूपम् | अकारो मध्यमरूपम् | अनुस्वारश्चान्त्यरूपम् | विन्दूत्तररूपम् | नादः सन्धानम् | संहिता सन्धिः | स ईशानगणेशविद्या | गणक-ऋषिर्नीयूड्गायत्रीच्छन्दः गं गणपतये नमः | एकदन्ताय विद्महे वक्रतुण्डाय धीमहि | तन्नो दन्ती प्रचोदयेत् | एकदन्तं चतुर्हस्तं पाशमङ्कुशधारिणम् | अभयं वरदं हस्तैर्बिभ्राणं मूषिकध्वजम् | रक्तं लम्बोदरं सूर्पकर्णकं रक्तवाससम् | रक्तगन्धानुलिप्ताङ्गं रक्तपुष्पैः सुपूजितम् | भक्तानुकम्पिनं देवं जगत्करणमच्युतम् | आविर्भूतञ्च सृष्ट्यादौ प्रकृतेः पुरुषात् परम् | एवं ध्यायति यो नित्यं स योगी योगिनां वरः || प्. ६१३) ओं नमो वराहपतये नमो गणपतये नमः प्रथमपतये नमस्तेऽस्तु लम्बोदराय | एकदन्ताय विघ्ननाशिने शिवसुताय वरदमूर्तये नमः | एतदेवाथ सर्वेशि ! यो योऽधीते स ब्रह्मभूयाय कल्पते | स पञ्चमहापापात् प्रमुच्यते | स सर्वतः सुखमेधते | सायमधीयानो दिवसकृतं पापं नाशयति | प्रातरधीयानो रात्रिकृतं पापं नाशयति | तत्सायं प्रातरधीयानः पापोऽपापो भवति | सर्वत्राधीयमानोऽपविघ्नो भवति | धर्मार्थकाममोक्षञ्च विन्दति इत्यथर्वशीर्षम् अशिष्याय न देयम् | यो यदि मोहाय दास्यति स पापीयान् भवति | सहस्रावर्तनाद् यस्तु यं यं काममधीते तं तमवाप्नोति | अनेन गणपतिमभिषिञ्चति स वाङ्मयो भवति | चतुर्थ्यामनश्नन् जपति स विद्यावान् भवति | इत्याथर्ववणवाक्यं ब्रह्माद्याचरन् विद्या न विभेति कदाचनेति | ये दूर्वाङ्कुरेर्यजति स वैश्रवणोपमो भवति | यो लाजैर्यजति स यशोवान् भवति | स मेधावान् भवति | यो मोदकसहस्रेण यजति स वाञ्छितमवाप्नोति | यश्चाज्यसमिद्भिर्यजति स सर्वं लभते | अष्टौ ब्राह्मणान् सम्यग् ग्राहयित्वा सूर्यवर्चस्वी भवति | सूर्ययग्रहे महानद्यां प्रतिमासन्निधौ वा जप्त्वा स सिद्धमन्तो भवति | महापापात् प्रमुच्यते स सर्वविद्भवति | य एनं वेद इत्युपनिषत्स्वाह नाववतु | ओं शान्तिः शान्तिः शान्तिः || इति महागणपत्युपनिषत् || अथ गणपतिस्तोत्रम् || नारदपञ्चरात्रे प्रथमरात्रे सप्तमाध्याये || श्रीनारद उवाच || हे गणेश ! सुरश्रेष्ठ ! लम्बोदर ! परात्पर ! | हेरम्ब ! मङ्गलारम्भ ! गजवक्त्र ! त्रिलोचन ! | त्रिलोचनसुत ! श्रीद ! श्रीधरस्मरणेप्सित ! | परमानन्द ! परमपार्वतीनन्दन ! स्वयम् | सर्वत्र पूज्य ! सर्वेण जगत्पूज्य ! जगद्गुरो ! | प्. ६१४) जगदीश ! जगद्बीज ! जगन्नाथ ! नमोऽस्तुते | यत्पूजा सर्वपुरतो यः स्तुतः सर्वयोगिभिः | यः पूजितः सुरेन्द्रैश्च मुनीन्द्रैस्तं नमाम्यहम् | परमाराधनेनैव कृष्णस्य परमात्मनः | पुण्यकेन व्रतेनैव यं प्राप्य पार्वती सती | तं नमामि सुरश्रेष्ठं सर्वश्रेष्ठं गरिष्ठकम् | जनश्रेष्ठं वरिष्ठञ्च तं नमामि गणेश्वरम् | इदं लम्बोदरस्तोत्रं नारदेन पुरा कृतम् | पूजाकाले पठेन्नित्यं जयस्तस्य पदे पदे | सङ्कल्पतः पठेद् यो हि वर्षमेकं सुसंयुतः | विशिष्टपुत्रं लभते परं कृष्णपरायणम् | यशस्विनञ्च विद्वांसं धनिनं चिरजीविनम् | विघ्ननाशो भवेत्तस्य महैश्वर्यं यशोऽमलम् | इहैव् च मुखं भुक्त्वा अन्ते याति हरेः पदम् || इति ज्ञानामृतसारे गणेशस्तोत्रं समाप्तम् || अथ वाणलिङ्गलक्षणम् | वीरमित्रोदयधृतकालोत्तरे || वाणलिङ्गं तथा ज्ञेयं भुक्तिमुक्तिप्रदायकम् | उत्पत्तिं वाणलिङ्गस्य लक्षणं शेषतः शृणु | नर्मदादेविकायाश्च गङ्गायमुनयोस्तथा | सन्ति पुण्यनदीनाञ्च वाणलिङ्गानि षण्मुखे | इन्द्रादिपूजितान्यत्र तच्चिह्नैर्विहितानि च | सदा सन्निहितस्तत्र शिवः सर्वार्थदायकः | इन्द्रलिङ्गानि तान्याहुः साम्राज्यार्थप्रदानि च || १ || इतीन्द्रलिङ्गलक्षणम् || अरुणं नित्यकीलालमुष्णञ्च शं करोत्यलम् | आग्नेयं तच्छक्तिनिभमथवा शक्तिलाञ्छितम् | इदं लिङ्गवरं स्थाप्य तेजसाधिपतिर्भवेत् || इत्याग्नेयलिङ्गलक्षणम् || २ || दण्डाकारं भवेद् याम्यमथवा रसनाकृति | यद्यदुक्तं सह तैर्न निर्णिक्तं ज्ञायते तदा | निषिक्तं निधनं तेन क्रियते स्थापितेन तु || ३ || इति याम्यलिङ्गलक्षणम् | राक्षसं खड्गसदृशं ज्ञानयोगफलप्रदम् | कर्करादिप्रलिप्तन्तु कुण्ठं कुक्षियुतं तथा | प्. ६१५) राक्षसं निष्कृतेर्लिङ्गं गार्हस्थ्ये न मुखप्रदम् || इति नैरृतलिङ्गलक्षणम् || ४ || वारुणं वर्त्तुलाकारं पाशाङ्कं चालिवर्च्चसम् | वृद्धिमुखादेः स्वत्वन्तु सम्भोगाप्तन्तु मध्यगे || इति वारुणलिङ्गलक्षणम् || ५ || कृष्णं धूम्रं नवा रुच्यं ध्वजाभं ध्वजमूषलम् | मस्तके स्थापितं तस्य न्यूनन्यूनमितस्ततः || इति वायुलिङ्गलक्षणम् || ६ || तूलकार्पासगदाकारमध्यगुरुकौवेरशषसस्य मध्यगम् || इति कुवेरलिङ्गलक्षणम् || ७ || दिनं वाप्यथवा रात्रिं शस्यानां वृद्धिरैर्बलम् | अस्थिशूलाङ्कितं रौद्रं हिमकुण्डलवर्च्चसम् || इति रौद्रलिङ्गलक्षणम् || ८ || चतुर्वर्णमयं वापि वैष्णवं ज्ञायतेऽग्रतः | वैष्णवं शङ्खचक्राङ्कगदाब्जादिविभूषितम् | श्रीवत्सं कौस्तुभाङ्कञ्च सर्वसिंहासनाङ्कितं | वैनतेयसमाङ्कं वा तथा विष्णुपदाङ्कितम् | वैष्णवं नाम तत् प्रोक्तं सर्वैश्वर्यफलप्रदम् || इति वैष्णवलिङ्गलक्षणम् || ९ || शालग्रामादिसंस्थन्तु शशाङ्कं श्रीविवर्द्धनम् | पद्माङ्कं स्वस्तिकाङ्कं वा श्रीवत्साङ्कं विभूतये || इत्यपि वैष्णवलिङ्गलक्षणम् || १० || हेमाद्रिधृतलक्षणकाण्डे || नारद उवाच || अथ वक्ष्यामि ते विप्र ! चिह्नमेकादशं परम् | श्रवणाद्यस्य पापानि नाशमायान्ति तत्क्षणात् | मधुपिङ्गलवर्णाभं कृष्णकुण्डलिकायुतम् | स्वयम्भूलिङ्गमाख्यातं सर्वसिद्धैर्निषेवितम् || १ || नानावर्णसमाकीर्णं जटाशूलसमन्वितम् | मृत्युञ्जयाह्वयं लिङ्गं सुरासुरनमस्कृतम् || २ || दीर्घाकारं शुभ्रवर्णं कृष्णविन्दुसमन्वितम् | नीलकण्ठं समाख्यातं लिङ्गं पूज्यं सुरासुरैः || ३ || शुक्लाभं शुक्लकेशञ्च नेत्रत्रयसमन्वितम् | त्रिलोचनं महादेवं सर्वपापप्रणोदनम् || ४ || प्. ६१६) ज्वलल्लिङ्गं जटाजूटं कृष्णाभं स्थूलविग्रहम् | कालाग्निरुद्रमाख्यातं सर्वसत्त्वैर्निषेवितम् || ५ || मधुपिङ्गलवर्णाभं श्वेतयज्ञोपवीतिनम् | श्वेतपद्मसमासीनं चन्द्ररेखाविभूषितम् | प्रलयास्त्रसमायुक्तं त्रिपुरारिसमाह्वयम् || ६ || शूभ्राभं पिङ्गलजटं मुण्डमालाधरं परम् | त्रिशूलधरमीशानं लिङ्गं सर्वार्थसाधनम् || ७ || त्रिशूलडमरुधरं शुभ्ररक्तार्द्धभागतः | अर्द्धनारीश्वराह्वानं सर्वदेवैरभीष्टदम् || ८ || ईषद्रक्तमयं कान्तं स्थूलं दीर्घं समुज्ज्वलम् | महाकालं समाख्यातं धर्मकामार्थमोक्षदम् || ९ || एतत्तु कर्थितं तुभ्यं लिङ्गचिह्नं महेशितुः | एकेनैव कृतार्थः स्याद् बहुभिः किमु सुव्रत ! || इति वाणलिङ्गचिह्नानि || वीरमित्रोदयधृतकालोत्तरे || उक्ताङ्कं श्रेयसे योज्यं शीऋषमन्त्रं विवर्जयेत् | यमवर्णन्तु यल्लिङ्गं यमाङ्कं वा कमण्डलुम् | दण्डाङ्कं सूत्रचिह्नं वा ब्रह्मज्ञानान्वितं मतम् | शशिवर्णं महाकालं नन्दीशं पद्मरागवत् | पद्मरागनिभं सर्वं महाभं सिद्धिपूजितम् | मौक्तिकाभं नीलनिभं रुद्रादित्यैः प्रपूजितम् | वसुदैः सेन्द्रयक्षेशैर्गुह्यकैर्यातुधानकैः | नानावर्णमयं नीलं शशाङ्कमण्डलप्रभम् | इति वाणलिङ्गलक्षणम् || वीरमित्रोदयधृतम् || इत्येतल्लक्षणं प्रोक्तं परीक्षातत्त्वकोविदैः | त्रिः सप्तपञ्चवारं वा तुलासाम्यं न जायते | तदा वाणं समाख्यातं शेषं पाषाणसम्भवम् | तुलाकारणन्तु तण्डुलेन | अपरतुलादिषु तण्डुला यद्यधिकाः स्युस्तदा तल्लिङ्गं गृहिणां पूज्यमवधार्यं लिङ्गञ्चेदधिकं तदोदासीनपूज्यं तदिति किंवदन्तीति हेमाद्रिधृतलक्षणकाण्डे || सूतसंहितायान्तु || सप्तकृत्वस्तुलारूढं वृद्धिमेति न हीयते | वाणलिङ्गमिति ध्यातं शेषं नार्म्मदमुच्यते | त्रिःपञ्चवारं यस्यैव तुलासाम्यं न जायते | तदा वाणं समाख्यातं शेषं पाषाणसम्भवम् || वीरमित्रोदये || प्. ६१७) नद्यां वा प्रक्षिपेद्भूयो यदा तदुपलभ्यते | वाणलिङ्गं तदा विद्धि न्यूनं सुखविवर्द्धनम् || इति वाणलिङ्गपरीक्षा || वाणशब्दव्युत्पत्तिरपि तत्रैव || अथ वाणं समाख्यातं यथा वक्ष्ये तथादितः | वाणः सदाशिवो देवो वाणो वाणान्तरोऽपि च | तेन यस्मै कृतं तस्माद्वाणलिङ्गमुदाहृतम् | सदा सन्निहितस्तत्र शिवः सर्वार्थदायकः | कृतप्रतिष्ठं तल्लिङ्गं वाणाख्येन शिवेन च | पङ्कजस्य फलाकारं कुण्डलस्य समाकृति | पङ्कजफलं पद्मवीजम् | पक्वजम्बूफलाकारं कुक्कुटाण्डसमाकृति | इति हेमाद्रिधृतलक्षणकाण्डे पाठः || भुक्तिमुक्तिप्रदञ्चैव वाणलिङ्गमुदाहृतम् || याज्ञवल्क्यसंहितायाम् | देवीं प्रति शिवावाक्यम् || प्रशस्तं नार्म्मदं लिङ्गं पक्वजम्बू फलाकृति | मधुवर्णं तथा शुक्लं नीलं मरकतप्रभम् | हंसडिम्बाकृति पुनः स्थापनायां प्रशस्यते | स्वयं संस्रवते लिङ्गं गिरितो नर्म्मदाजले | पुरा वाणासुरेणाहं प्रार्थितो नर्म्मदातटे | अधिवासं गिरौ तत्र लिङ्गरूपी महेश्वरः | वाणलिङ्गमपि ख्यातमतोऽर्थाज्जगतीतले | अन्येषां कोटिलिङ्गानां पूजने यत् फलं लभेत् | तत् फलं लभते मर्त्त्यो वाणलिङ्गैकपूजनात् || तथा || ताम्री वा स्फाटिकी स्वार्णी पाषाणी राजती तथा | वेदिका च प्रकर्त्तव्या तत्र संस्थाप्य पूजयेत् | प्रत्यहं योऽर्चयेल्लिङ्गं नार्म्मदं भक्तिभावतः | ऐहिकं किं फलं तस्य मुक्तिस्तस्य करे स्थिता || इति प्रत्यहवाणलिङ्गपूजाफलम् || सूतसंहितायाम् || संस्थाप्य श्रीवाणलिङ्गं रत्नकोटिगुणं भवेत् | रसलिङ्गे ततो वाणात् फलं कोटिगुनं स्मृतम् | गुणांस्तु रसलिङ्गस्य वक्तुं शक्नोति शङ्करी | सिद्धयो रसलिङ्गे स्युरणिमाद्याः सुसंस्थिताः || केदारखण्डे || रत्नधातुमयान्येव लिङ्गानि कथितान्यपि | पवित्राण्येव पूज्यानि सर्वकामप्रदानि च | प्. ६१८) एतेषामपि सर्वेषां काश्मीरं हि विशिष्यते | काश्मीरादपि लिङ्गाच्च वाणलिङ्गं विशिष्यते | वाणलिङ्गात् परं नान्यत् पवित्रमिह दृश्यते | ऐहिकामुष्मिकं सर्वं पूजाकर्तुः प्रयच्छति || इति वाणलिङ्गप्रशंसा || निन्द्यलिङ्गमाह तत्रैव || कर्कशे वाणलिङ्गे तु पुत्रदारक्षयो भवेत् | चिपिटे पूजिते तस्मिन् गृहभङ्गो भवेद् ध्रुवम् | एकपार्श्वश्रिते धेनुपुत्रदारधनक्षयः | शिरसि स्फुटिते वाणे व्याधिर्मरणमेव च | छिद्रलिङ्गेऽर्चिते वाणे विदेशगमनं भवेत् | लिङ्गे च कर्णिकां दृष्ट्वा व्याधिमान् जायते पुमान् | अत्युन्नतिविलाग्रे तु गोधनानां क्षयो भवेत् || हेमाद्रिधृतम् || तीक्ष्णाग्रं वक्रशीर्षञ्च त्र्यस्रलिङ्गं विवर्जयेत् | अतिस्थूलं चातिकृशं स्वल्पं वा भूषणान्वितम् | गृही विवर्जयेत्तादृक् तद्धि मोक्षार्थिनो हितम् || इति दुष्टवाणलिङ्गलक्षणम् || शुभलिङ्गमाह वीरमित्रोदये || अर्थदं कपिलं लिङ्गं घनाभं मोक्षकाङ्क्षिणाम् | लघु वा कपिलं स्थूलं गृही नैवार्चयेत् क्वचित् | पूजितव्यं गृहस्थेन वर्णेनभ्रमरोपमम् | तस्य पीठमपीठं वा मन्त्रसंस्कारवर्जितम् | सिद्धिमुक्तिप्रदं लिङ्गं सर्वप्रसादपीठगम् || इति शुभवाणलिङ्गलक्षणम् || सूतसंहितायां भैरवाक्यम् || वाणासुरः पुरा भद्रे ! शिवस्यातीव वल्लभः | जितक्रोधोऽनुरक्तश्च शिवपूजाविधौ रतः | वह्निज्ञो निपुणश्चैव शिल्पज्ञो लक्षणान्वितः | दिने दिने स्वयं दत्त्वा लिङ्गं स्थाप्य प्रपूजयेत् | एवं वर्षशतं देवि ! दिव्यमानेन पूजयेत् | तदा तद्भक्तिसुलभः प्रत्यक्षः शङ्करोऽभवत् || शङ्कर उवाच || तुष्टोऽहं तव हेवाण ! वरं ब्रूहि किमिच्छसि | शङ्करस्य वचः श्रुत्वा वाणो वचनमब्रवीत् | यदि तुष्टोऽसि हीनाय मह्यं त्वं मन्दभागिने | क्लिष्टोऽहं तव देवेश ! लिङ्गं कृत्वा दिने दिने | प्. ६१९) तत्तल्लक्षणसंसिद्धलक्षणं शास्त्रनिर्म्मितम् | शास्त्रार्थौ दुर्लभौ देव ! सिद्धश्चार्थश्च दुर्लभः | तस्मात्त्वं यदि मे तुष्टो लिङ्गं देहि सुलक्षणम् | सर्वकामकृतार्थञ्च सर्वसत्त्वानुकम्पनम् | सर्वेषाञ्च हितार्थाय प्रसादं कुरु शङ्कर ! | इत्येवं वचनं तस्य शिवः परमकारणम् | श्रुत्वा कैलासमूर्द्धानं शङ्करेण विनिर्म्मिताः | लिङ्गानां कोटिसंख्याश्च तथा चैव चतुर्दश | सिद्धलिङ्गं तदा तत्तत् सर्वं सदोदयं स्वयम् | अयोज्यैवं सुसम्पूर्णं वाणस्य च समर्पितम् | अक्षयफलदं वाणं स्थाप्यमानञ्च नित्यशः | सम्पूज्य वाणः सद्भावं कृत्वा प्रणयनं तदा | तद्भावं स्वपुरं नीत्वा न्यूनं चिन्तयते शुचिः | अक्षययं यदि संसिद्धं स्थाप्यमानं दिने दिने | सत्त्वानां सिद्धिहेत्वर्थं वाणः स्थाने सुसंरये | लिङ्गानां कालिकागर्ते सञ्चितास्तु त्रिकोटयः | श्रीशैलकोटयस्तिस्रः कोट्येका कन्यकाश्रमे | माहेश्वरे च कोटिस्तु कन्यातीर्थे तु कोटिका | महेन्द्रे चैव नेपाले एकैका कोटिरेव च | वाणार्च्चार्थं कृतं लिङ्गं वाणलिङ्गमतः स्मृतम् | वाणो वा शिव इत्युक्तस्तत्कृतं वाणमुच्यते | तस्मात्तेषु प्रदेशेषु पुण्यस्थानेषु तेषु वा | स्थितं तच्छिवसद्भावं शिवस्याकृतिविग्रहे | हेम्ना तदाकृतिलक्षणं समुच्चयेऽपि | स्वयम्भूलिङ्गवद्वाणलिङ्गं भुक्त्यै स्वमुक्तये | सहस्रफलमन्यस्माद् यथास्थानप्रपूजने | श्रीशैले कालिकागर्ते लिङ्गाद्रौ कन्यकाश्रमे | कन्यातीर्थे वने याने महेन्द्रे वा सुरेश्वरे | स्थितानि वाणलिङ्गानि शिवेनैव कृतानि तु | सिद्धान्तशेखरे वाणलिङ्गान्यधिकृत्य || तदा त्वेकप्रकारं स्यादन्यवर्णमपीठकम् | लक्ष्ममूर्तिविहीनञ्च वाणं तत्पृथुलाग्रकमिति | वाणलिङ्गेष्वावाहनादि न कर्त्तव्यम् || तदुक्तं भविष्ये || वाणलिङ्गानि राजेन्द्र ! स्थितानि भुवनत्रये | न प्रतिष्ठा न संस्कारस्तेषामावाहनं न चेति || योगसारे पञ्चमपरिच्छेदे || प्. ६२०) ब्राह्म्ये मुहूर्ते चोत्थाय यः स्मरेद्वाणलिङ्गकम् | सर्वत्र जयमाप्नोति सत्यं सत्यं महेश्वर ! || अथ वाणलिङ्गध्यानं तत्रैव || ओं प्रमत्तं शक्तिसंयुक्तं वाणाख्यञ्च महाप्रभम् | कामवाणान्वितं देवं संसारदहनक्षमम् | शृङ्गारादिरसोल्लासं वाणाख्यं परमेश्वरम् | एवं ध्यात्वा वाणलिङ्गं यजेत्तं परमं शिवम् | मनसा गन्धपुष्पाद्यैः सम्पूज्यास्य मनुं स्मरेत् || तथा | प्राणायामं ततः कृत्वा वाणलिङ्गन्तु तोषयेत् | तदिष्टदेवयोरैक्यं विभाव्य वाग्भवं जपेत् | ततो जपं समाप्याथ स्तवेनानेन तोषयेत् || अथ स्तवः || ओं वाणलिङ्ग ! महाभाग ! संसारात् त्राहि मां प्रभो ! | नमस्ते चोग्ररूपाय नमस्ते व्यक्तयोनये | संसारकारिणे तुभ्यं नमस्ते सूक्ष्मरूपधृक् ! | प्रमत्ताय महेन्द्राय कालरूपाय ! वै नमः | दहनाय नमस्तुभ्यं नमस्ते योगकारिणे | भोगिनां भोगकर्त्रे च मोक्षदात्रे नमो नमः | नमः कामाङ्गनाशाय नमः कल्मषहारिणे | नमो विश्वप्रदात्रे च नमो विश्वस्वरूपिणे | वाणस्य वरदात्रे च रावणस्य क्षयाय च | रामस्यानुग्रहार्थाय राज्याय भरतस्य च | मुनीनां योगदात्रे च राक्षसानां क्षयाय च | नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नमः | ऐं दाहिकाशक्तियुक्ताय महामायाप्रियाय च | भगप्रियाय सर्वाय वैरिणां निग्रहाय च | परित्राणाय योगिनां कौलिकानां प्रियाय च | कुलाङ्गनानां भक्ताय कुलाचाररताय च | कुलभक्ताय योगाय नमो नारायणाय च | मधुपानप्रमत्ताय योगेशाय नमो नमः | कुलनिन्दाप्रणाशाय कौलिकानां सुखाय च | कुलयोगाय निष्ठाय शुद्धाय परमात्मने | परमात्मस्वरूपाय लिङ्गमूलात्मकाय च | सर्वेश्वराय सर्वाय शिवाय निर्गुणाय च | इत्येतत् परमं गुह्यं वाणलिङ्गस्य शङ्कर ! | प्. ६२१) यः पठेत् साधकश्रेष्ठो गाणपत्यं लभेत सः | स्तवस्नास्य प्रसादेन योगी योगीत्वमाप्नुयात् | राज्यार्थिनां भवेद्राज्यं भोगिनां भोग एव च | साधूनां साधनं देव ! कौलिकानां कुलं भवेत् | यं यं कामयते मन्त्री तं तमाप्नोति लीलया | वाणलिङ्गप्रसादेन सर्वमाप्नोति सत्वरम् | किमन्यत् कथयामीह सर्वं वेत्सि कुलेश्वर ! | महाभये समुत्पन्ने राजद्वारे कुलेश्वर ! | देशान्तरभये प्राप्ते दस्युचौरादिसङ्कुले | पठनात् स्तवराजस्य न भयं लभते क्वचित् | वाणलिङ्गस्य माहात्म्यं संक्षेपात् कथितं मया | तस्य श्रवणमात्रेण नरो मोक्षमवाप्नुयात् | वाणलिङ्गं सदाराध्यं योगिनां योगसाधने | कौलिकानां कुलाचारे पशूनां शत्रुविग्रहे | वेदज्ञानां वेदपाठे रोगिणां रोगनाशने | यो यो नाराधयेदेनं सर्वं तन्निष्फलं भवेत् || इति श्रीयोगसारे सर्वागमोत्तमे पार्वतीशिवसंवादे वाणलिङ्गस्तोत्रं समाप्तम् || अथ रौद्रलिङ्गलक्षणम् || वीरमित्रोदयधृतम् || नदीसमुद्भवं रौद्रमन्योन्यस्य विघर्षणात् | नदीवेगात्समं स्निग्धं सञ्जातं रौद्रमुच्यते | समुच्चयेऽपि || सरित्प्रवाहसंस्थानं वाणलिङ्गसमाकृति | तदन्यदपि बोद्धव्यं रौद्रलिङ्गं सुखावहम् | नदीसारनर्म्मदाया वाणलिङ्गसमाकृति | तदन्यदपि बोद्धव्यं लिङ्गं रौद्रं भविष्यति | रौद्रलिङ्गं तथा ख्यातं वाणलिङ्गसमाकृति | श्वेतं रक्तं तथा पीतं कृष्णं विप्रादिपूजितम् | स्वभावात् कृष्णवर्णं वा सर्वजातिषु सिद्धिदम् | नर्म्मदासम्भवं रौद्रं वाणलिङ्गवदीरितमिति || इति रौद्रलिङ्गलक्षणम् || १ || अथ शिवनाभिलक्षणम् || वीरमित्रोदयधृतशिवनारदसंवादे शिवलिङ्गं प्रक्रम्य || उत्तमं मध्यमधमं त्रिविधं लिङ्गमीरितम् | चतुरङ्गुलमुत्सेधे रम्यवेदिकमुत्तमम् | उत्तमं लिङ्गमाख्यातं मुनिभिः शास्त्रकोविदैः | प्. ६२२) तदर्द्धं मध्यमं प्रोक्तं तदर्द्धमधमं स्मृतम् || तस्य महिमापि तत्रैव || शिवनाभिमयं लिङ्गं प्रतिपूज्य महर्षिभिः | श्रेष्ठञ्च सर्वलिङ्गेभ्यस्तस्मात् पूज्यं विधानतः || इति शिवनाभिलिङ्गलक्षणम् || २ || अथ दैवलिङ्गलक्षणम् || सिद्धान्तशेखरे || करसम्पुटसंस्पर्शं शूलटङ्केन्दुभूषितम् | रेखाकोटरसंयुक्तं निम्नोन्नतसमन्वितम् | दीर्घाकारञ्च यल्लिङ्गं ब्रह्मभागादिवर्जितम् | लिङ्गं गोलमिति प्रोक्तं गोलकं प्रोच्यतेऽधुना | कुष्माण्डस्य फलाकारं नागरङ्गफलोपमम् | काकडिम्बफलाकारं गोललिङ्गमितीरितम् || इति गोललिङ्गलक्षणम् || ४ || अथार्षलिङ्गलक्षणम् || तत्रैव || नानावैल्वफलाकारं ब्रह्मसूत्रविवर्त्तनम् | मूले स्थूलञ्च यल्लिङ्गं कपित्थफलसन्निभम् | नालस्य वा फलाकारं मध्ये स्थूलञ्च यद्भवेत् | मध्ये स्थूलं वरं लिङ्गमृषिवाणमुदाहृतम् || इत्यार्षलिङ्गलक्षणम् || ५ || अथ लिङ्गलक्षणम् || लिङ्गं हि द्विविधमकृत्रिमं कृत्रिमञ्च || अकृत्रिमं स्वयम्भूतं स्वयम्भूवाणलिङ्गादि | कृत्रिमं निर्म्मितं धातुलिङ्गादि | सिद्धान्तशेखरे | नत्वा नारदमार्यादीन् लिङ्गं पिष्टाकारविन्दुरूपिणौ | ब्राह्मी शिलोत्कलारूपा वक्ष्ये लिङ्गस्य लक्षणम् | तल्लिङ्गं द्विविधं ज्ञेयमचलञ्च चलं तथा | प्रत्येकं त्रिविधं ज्ञेयं लिङ्गं तदुभयात्मकम् | प्रासादे स्थापितं लिङ्गमचलं तच्छिलादिजम् | स्थापितमचलं गेहे स्थिरं लिङ्गमयोजिते | पञ्चधा तत् स्थितं लिङ्गं स्वयम्भूदैवपालकम् | आर्षञ्च मानसं लिङ्गं तेषां लक्षणमुच्यते || दीपिकायाम् | आचार्यमुनये स्वैरं स्वयम्भूतो महेश्वरः | यत्र चैव स्वयं व्यक्तं लिङ्गमस्तु स्वयम्भु तत् | धमनीयस्य संस्पर्शाद् दहति क्षिप्रमेव तु | धमनी सुषुम्नेडापिङ्गलाव्यतिरिक्ता ब्रह्मरन्ध्रं विनिर्भिद्य लिङ्गते नाडी सैव | प्. ६२३) सिद्धान्तशेखरे || नानाच्छिद्रसुसंयुक्तं नानावर्णसमन्वितम् | अदृष्टमूलं यल्लिङ्गं कर्कशं भुवि दृश्यते | तल्लिङ्गन्तु स्वयम्भूतमपरं लक्षणच्युतम् | स्वयम्भूलिङ्गमित्युक्तं तच्च नानाविधं मतम् | शङ्खाभमस्तकं लिङ्गं वैष्णवं तदुदाहृतम् | पद्माभमस्तकं ब्राह्म्यं छत्राभं शाक्रमुच्यते | शिरोयुग्मं तदाग्नेयं त्रिपदं याम्यमीरितम् | खड्गाभं नैर्-ऋतं लिङ्गं वारुणं कलसाकृति | वायव्यं ध्वजवल्लिङ्गं कौवेरन्तु गदान्वितम् | ईशानस्य त्रिशूलाभं लोकपालादिनिःसृतम् | स्वयम्भू लिङ्गमाख्यातं सर्वशास्त्रविशारदैः || इति स्वयम्भूलिङ्गलक्षणम् || मत्स्यसूक्ते || दृष्ट्वा लिङ्गं महेशस्य स्वयम्भूतस्य पार्वति ! | सर्वपापविनिर्मुक्तं परे ब्रह्मणि लीयते || एतेषां पूजाफलन्तु तत्रैव || विशेषाच्छैलजं मुक्त्यै भुक्तये चानुषङ्गतः | पार्थिवं भुक्तये शस्तं मुक्तये चानुषङ्गतः | एवं वै दारुजं ज्ञेयं चिह्नलिङ्गं तथा पुनः | स्थिरलक्ष्मीप्रदं ज्ञेयं हैमं राज्यप्रदञ्च तत् | पुत्रवृद्धिकरं ताम्रं राङ्गमायुःप्रवर्द्धनम् || पद्मपुराणम् || पारदञ्च महाभूत्यै सौभाग्याय च मौक्तिकम् | चन्द्रकान्तं मृत्युजित् स्याद्धाटकं सर्वकामदम् | वीरमित्रोदयधृतकल्पोत्तरेऽपि || सर्वफलप्रदा भूमिर्मणयस्तद्वदेव हि | अनन्ताद्याः स्मृता ह्यष्टौ मणयो विद्युदुज्ज्वलाः | रात्रौ प्रकाशकाः सर्वविषाद्याघातकारिणः | नानावर्णास्तु विज्ञेया रसैर्गन्धैश्च रूपतः | वज्राद्याः स्फाटिकाद्याश्च गुडान्नादिविनिर्मितम् | सर्वकामप्रदं पुंसां लिङ्गं तात्कालिकं मतम् || लक्षणसमुच्चये || गन्धं सौभाग्यदं लिङ्गं पौष्पं मुक्तिप्रदायकम् || तथा | नानासूनोद्भवं लिङ्गं नानाकामप्रदायकम् | सैकतं गुणदं लिङ्गं सौभाग्याय च लावणम् | उच्चाटने तु पाशाप्तं मौलं शत्रुक्षयावहम् | तात्कालिकं दरिद्रश्च कृत्वा भक्त्या समर्च्चयेत् || गरुडपुराणे || कस्तूरिकाया द्वौ भागौ चत्वारश्चन्दनस्य च | प्. ६२४) कुङ्कुमस्य तयश्चैव शशिना च चतुःसमम् | एतद्वै गन्धलिङ्गन्तु कृत्वा सम्पूज्य भक्तितः | शिवसायुज्यमाप्नोति बन्धुभिः सहितो नरं | कार्यं पुष्पमयं लिङ्गं हयगन्धसमन्वितम् | नवखण्डां धरां भुक्त्वा गणेशाधिपतिर्भवेत् | रजोभिर्निर्मितं लिङ्गं यः पूजयति भक्तितः | विद्याधरपदं प्राप्य पश्चाच्छिवसमो भवेत् | श्रीकामो गणेशकृल्लिङ्गं कृत्वा भक्त्या प्रपूजयेत् | स्वच्छेन कापिलेनैव गोमयेन प्रकल्पयेत् | स्वच्छेन भूमिपतनरहितेन शून्यद्धृतेन इति यावत् | कार्यं यष्टिक्रमं लिङ्गं यवगोधूमशालिजम् | श्रीकामः पुष्टिकामश्च पुत्रकामस्तदर्च्चयेत् | सिताखण्डमयं लिङ्गं कार्यमारोग्य वर्द्धनम् | वश्ये लवणजं लिङ्गं तालत्रिकटुकान्वितम् | तालं हरितालम् || त्रिकटुकं शुण्ठीपिप्पलीमरिचमिति प्रसिद्धम् | गव्यघृतमयं लिङ्गं सम्पूज्य बुद्धिवर्द्धनम् || तथा | लवणेन च सौभाग्यं पार्थिवं सर्वकामदम् | कामदं तिलपिष्टोत्थं तुषोत्थं मारणे स्मृतम् | भस्मोत्थं सर्वफलदं गुडोत्थं प्रीतिवर्द्धनम् | गन्धोत्थं गुणदं भुरि शर्करोत्थं सुखप्रदम् | वंशाङ्कुरोत्थं वंशकरं गोमयं सर्वरोगदम् | केशास्थिसम्भवं लिङ्गं सर्वशत्रुविनाशनम् | क्षोभणे मारणे पिष्टसम्भवं लिङ्गमुत्तमम् | दारिद्र्यदं द्रुमोद्भूतं पिष्टं सारस्वतप्रदम् | दधिदुग्धोद्भवं लिङ्गं कीर्तिलक्ष्मीमुखप्रदम् | धान्यदं धान्यजं लिङ्गं फलोत्थं फलदं भवेत् | पुष्पोत्थं दिव्यभोगायुर्मुक्त्यै धात्रीफलोद्भवम् | नवनीतोद्भवं लिङ्गं कीर्तिसौभाग्यवर्द्धनम् | दूर्वाकाण्डसमुद्भूतमपमृत्यु निवारणम् | कर्पूरसम्भवं लिङ्गं चला वै भुक्तिमुक्तिदाः | अयस्कान्तं चतुर्द्धा तु ज्ञेयं सामान्यसिद्धिषु || सारसंग्रहे विशेषः || सर्वं न च भवं श्रेष्ठं तत्र वज्रमरिछिदि | यमलिङ्गं महाभूत्यै सौभाग्याय च मौक्तिकम् | पुष्टिमूलं महानीलं ज्योतिस्तीरसमुद्भवम् | प्. ६२५) स्पर्शकं कुलसन्नत्यै तैजसं सूर्यकान्तजम् | चन्द्रापीडं मृत्युजितं स्फाटिकं सर्वकामदम् || चन्द्रापीडं चन्द्रकान्तमित्यर्थः | शूलाख्यमणिजं शत्रुक्षयार्थं मौक्तिकं तथा | यत्सन्निधानात् शूलरोगनाशः स शूलमणिः | अपुत्रं हीरकं ज्ञेयं रोगहृन्मौक्तिकोद्भवम् | शुभकृत् पुष्कलं तीर्थे वैदूर्यं शत्रुदर्पहृत् | नीलं लक्ष्मीप्रदं ज्ञेयं स्फाटिकं सर्वकामदम् || कालोत्तरे || महाभूतिप्रदं हैमं राजतं भूतिवर्द्धनम् | आरकूटं तथा कांस्यं शृणु सामान्यमुक्तिदम् || आरकूटं पित्तलम् || त्रपुसीसायसं लिङ्गं शत्रूणां नाशने हितम् || तथा | कीर्तिदं कांस्यजं लिङ्गं राजतं पुत्रवर्द्धनम् | पैत्तलं भुक्तिमुक्त्यर्थं मिश्रजं सर्वसिद्धिदम् || मिश्रजमष्टधातुनिर्मितम् || शिवनारदसंवादे || पितॄणां मुक्तये लिङ्गं पूज्यं रजतसम्भवम् | हैमजं सत्यलोकस्य प्राप्तये पूजयेत् पुमान् | पूजयेत्ताम्रजं लिङ्गं पुष्टिकामो हि मानवः | त्राम्रादिलिङ्गपूजनन्तु कलीतरपरम् | तथाच मत्स्यसूक्ते || ताम्रलिङ्गं कलौ नार्चेत् रैत्यस्य सीसकस्य च | रक्तचन्दनलिङ्गञ्च शङ्खकांस्यायसं तथा | तुष्टिकामस्तु सततं लिङ्गं पित्तलसम्भवम् | कीर्तिकामो यजेन्नित्यं लिङ्गं कांस्यसमुद्भवम् | शत्रुमारणकामस्तु लिङ्गं लौहमयं सदा | सदा सीसमयं लिङ्गमायुष्कामोऽर्च्चयेन्नरः || लक्षणसमुच्चयेऽपि | स्थिरलक्ष्मीप्रदं हैमं राजतं चैव राज्यदम् | प्रजावृद्धिकरं राङ्गं ताम्रमायुःप्रवर्द्धनम् | विद्वेषकारकं कांस्यं रीतिजं शत्रुनाशनम् || रीतिजं पित्तलमयम् || रोगघ्नं सैसकं लिङ्गमायसं शत्रनाशनम् | अष्टलौहमयं लिङ्गं कुष्ठरोगक्षयावहम् | त्रिलौहसम्भवं लिङ्गं विज्ञानं प्रति सिद्धिदम् || लिङ्गपुराणे || श्रीप्रदं वज्रजं लिङ्गं शिलाजं सर्वसिद्धिदम् | धातुजं धनदं साक्षाद्दारुजं भोगसिद्धिदम् || कालोत्तरे || गन्धपुष्पमयं लिङ्गं तथान्नादिविनिर्मितम् | प्. ६२६) कस्तूरीसम्भवं लिङ्गं धनाकाङ्क्षी प्रपूजयेत् | लिङ्गं गोरोचनोत्थञ्च रूपकामस्तु पूजयेत् | कान्तिकामस्तु सततं लिङ्गं कुङ्कुमसम्भवम् | श्वेतागुरुसमुद्भूतं महाबुद्धिविवर्द्धनम् | धारणाशक्तिदं लिङ्गं कृष्णागुरुसमुद्भवम् || मातृकाभेदतन्त्रे द्वादशपटले च || पार्थिवे शिवपूजायां सर्वसिद्धियुतो भवेत् | पाषाणे शिवपूजायां द्विगुणं फलमीरितम् | स्वर्णलिङ्गे च पूजायां शत्रूणां नाशनं मतम् | सर्वसिद्धिश्वरो रौप्यै फलं तस्माच्चतुर्गुणम् | ताम्रे पुष्टिं विजानीयात् कांस्ये च धनसंक्षयः | गङ्गायाञ्च लक्षगुणं लाक्षायां रोगवान् भवेत् | स्फाटिके सर्वसिद्धिः स्यात्तथा मरकते प्रिये ! | लौहलिङ्गे रिपोर्नाशः कामदं भस्मलिङ्गकम् | बालुकायां काम्यसिद्धिर्गोमये रिपुहिंसनम् | सर्वलिङ्गस्य माहात्म्यं धर्म्मकामार्थमोक्षदम् || षट्कर्म्मदीपिकाधृतशिवधर्मे || ब्रह्मा सम्पूजयेन्नित्यं लिङ्गं शैलमयं शुभम् | तस्य सम्पूजनात्तेन प्राप्तं ब्रह्मत्वमुत्तमम् | इन्द्रनीलमयं लिङ्गं विष्णुः समर्चयेत् सदा | विष्णुत्वं प्राप्तवान् तेनसोऽभूद्भूतैकपालकः | स्फाटिकं निर्म्मलं लिङ्गं वरुणोऽभ्यर्च्चयेत् सदा | तेन तद्वरुणत्वं हि प्राप्तं तेजोबलान्वितम् || मातृकाभेदतन्त्रे सप्तमपटलेऽपि || पूजयेत् पार्थिवे लिङ्गे पाषाणलिङ्गकेऽथवा | स्वर्णलिङ्गेऽथवा देवि ! रौप्ये ताम्रे च कांस्यके | पारदे वाथ गङ्गायां स्फटिके मरकतेऽपि वा | कार्यभेदे लौहलिङ्गे भस्मनिर्म्मितलिङ्गके | बालुकानिर्मिते लिङ्गे गोमये वाथ पूजयेत् | संस्कारेण विना देवि ! पाषाणद्रौ न पूजयेत् || इति शिवलिङ्गनिर्म्माणद्रव्याणि || अथ शिवलिङ्गसंस्कारः || तत्रैव || संस्कारञ्च प्रवक्ष्यामि विशेष इह यो भवेत् | रौप्यञ्च स्वर्णलिङ्गञ्च स्वर्णपात्रे निधाय च | तस्मादुत्तोल्य तल्लिङ्गं दुग्धमध्ये दिनत्रयम् | त्र्यम्बकेण स्नापयित्वा कालरुद्रं प्रपूजयेत् | प्. ६२७) षोडशेनोपचारेण वेद्यान्तु पार्वतीं यजेत् | तस्मादुत्तोल्य तल्लिङ्गं गङ्गातोये दिनत्रयम् | ततो वेदोक्तविधिना संस्कारमाचरेत् सुधीः | पूर्वोक्तवचनैः फलविशेषकामनया नानाविधलिङ्गपूजोक्ता | सा च पूजा लिङ्गं सुलक्षणं कुर्यात्त्यजेल्लिङ्गमलक्षणम् | दैर्घ्य हीने भवेद् व्याधिरधिके शत्रुवर्द्धनम् | मानहीने विनाशः स्यादधिके च शिशुक्षयः | विस्तारे चाधिके हीने राष्ट्रनाशो भवेद् ध्रुवम् | पीठहीने तु दारिद्र्यं शिरोहीने कुलक्षयः | ब्रह्मसूत्रविहीने च राज्ञां राष्ट्रञ्च नश्यति | तस्मात् सर्वप्रयत्नेन लिङ्गं कुर्यात् सुलक्षणम् | इत्यादिना सुलक्षणलिङ्गस्यैव फलदातृत्वमुक्तम् | लिङ्गार्च्चनतन्त्रे द्वितीयपटले || देव्युवाच || इन्द्रियैरहितो देवः शून्यरूपः सदाशिवः | आकारो नास्ति देवस्य किं तस्य पूजने फलम् || शिव उवाच || प्रेते पूजा महेशानि ! कदाचिन्नास्ति पार्वति ! | रुद्रस्य परमेशानि ! रौद्री शक्तिरितीरिता | रौद्री तु परमेशानि ! आद्या कुण्डलिनी भवेत् | वर्त्तते परमे शानि ! ब्रह्मविष्णुशिवात्मिका | सार्द्धत्रिबलयाकारैः शिवं वेष्ट्य सदा स्थिता | शक्तिं विना महेशानि ! प्रेतत्वं तस्य निश्चितम् | शक्तिसंयोगमात्रेण कर्म्मकर्त्ता सदाशिवः | अत एव महेशानि ! पूजयेच्छिवलिङ्गकम् || इति सशक्तिकशिवलिङ्गपूजनफलम् || मातृकातन्त्रे सप्तमपटले || देव्युवाच || लिङ्गप्रमाणं देवेश ! कथयस्व मयि प्रभो ! | पार्थिवे च शिलादौ च विशेषो यत्र यो भवेत् || श्रीशिव उवाच || मृत्तिकातोलकं ग्राह्यमथवा तोलकद्वयम् | एतदन्यन्न कुर्वीत कदाचिदपि पार्वति ! || षट्कर्म्म दीपिकाधृतविश्वसारतन्त्रेऽपि || मृत्तिकातोलकं ग्राह्यमथवा तोलकद्वयम् | त्रिसूत्रस्य प्रमाणेन घटनं कारयेद्बुधः | स्वाङ्गुष्ठपर्वमाणन्तु कृत्वा लिङ्गं प्रपूजयेत् | मृदादिलिङ्गघटने प्रमाणं परिकीर्तितम् | प्. ६२८) फलमुक्तमवाप्नोति अन्यथा चेत्तदन्यथा | त्रिसूत्रीकरणमुक्तं कालोत्तरे || लिङ्गे वेद्यां तथा पीठे समसूत्रनिपातनात् | समञ्चैव विजानीयात् त्रिसूत्रीकरणन्त्विदम् | तत्र मृत्तिकाभेदेन ब्राह्मणादीनां पूजाफलस्य प्रशस्तत्वमुक्तम् || लिङ्गार्च्चनतन्त्रे तृतीयपटले || चतुर्द्धा पार्थिवं लिङ्गं मृत्स्नाभेदेन पार्वति ! | शुक्लं रक्तं तथा पीतं कृष्णञ्च परमेश्वरि ! | शुक्लन्तु ब्राह्मणे शस्तं क्षत्रिये रक्तमिष्यते | पीतन्तु वैश्यजातौ स्यात् कृष्णं शूद्रे प्रकीर्तितम् | तथा || शुक्लं हि पार्थिवं लिङ्गं निर्माय यस्तु पूजयेत् | स एव परमेशानि ! त्रिवर्गफलभाग्भवेत् | क्षत्रियस्तु वरारोहे ! रक्तं निर्माय पार्थिवम् | पूजयेत् सततं यस्तु त्रिवर्गफलमाप्नुयात् | हरितं पार्थिवं देवे ! निर्म्माय यस्तु पूजयेत् | स च वैश्यो महेशानि ! त्रिवर्गफलभाग्भवेत् | कृष्णं हि पार्थिवं लिङ्गं निर्माय यस्तु पूजयेत् | स शूद्रः परमेशानि ! त्रिवर्गफलभाग्भवेत् || मातृकाभेदतन्त्रे || शिलादौ च महेशानि ! स्थूलञ्च फलदायकम् | अङ्गुष्ठमानं देवेशि ! यद्वा हेमाद्रिमाणकम् | क्रमेण देवदेवेशि ! फलं बहुविधं लभेत् | स्थूलात् स्थूलतरं लिङ्गं रुद्राक्षं परमेश्वरि ! | पूजनाद्धारणाद्देवि ! फलं बहुविधं स्मृतम् | स्थूलात् स्थूलतरमिति पार्थिवलिङ्गेतरपरम् | मृत्तिकातोलकमिति प्रागुक्तविशेषवचनादिति | शिलास्फटिकमरकतादीनां पञ्चसूत्रीकरणमुक्तम् लैङ्गै यथा || शिवलिङ्गस्य यन्मानं तन्मानं दक्षसव्ययोः | योन्यग्रमपि यन्मानं तदधोऽपि यथा भवेत् || तन्त्रान्तरे || लिङ्गस्य यादृग् विस्तारः परिणामोऽपि तादृशः | लिङ्गस्य द्विगुणा वेदी योनिस्तदर्द्धसम्मिता | कुर्वीताङ्गुष्ठतो ह्रस्वं न कदाचिदपि क्वचित् | रत्नादिशिवनिर्माणे मानमिवावशाद्भवेत् || लिङ्गशब्दव्युत्पत्तिस्तु स्कन्दपुराणे | आकाशं लिङ्गमित्याहु पृथिवी तस्य पीठिका | प्. ६२९) आलयः सर्वदेवानां लयनाल्लिङ्गमुच्यते || शिव उवाच || न तुष्याम्यर्च्चितोऽर्च्चायां पुष्पधूपनिवेदनैः | लिङ्गेऽर्च्चिते तथात्यर्थं परं तुष्यामि पार्वति ! | एवं देवि ! पुरा कृत्ये जितोऽहं सर्वदैवतैः | लिङ्गत्वाल्लिङ्गमित्युक्तं सदेवासुरकिन्नरैः | प्रयच्छामि दिवं देवि ! यो मल्लिङ्गार्च्चने रतः | त्यक्ता सर्वाणि पापानि निर्गदो दग्धकल्मषः | मन्मना मन्नमस्कारो मामेव प्रतिपद्यते | द्रव्यविशेषेण पूजादिफलमपि तत्रैव || वस्त्रपूतजलैर्लिङ्गं स्नपित्वा मम मानवः | लक्षाणाञ्चाश्वमेधानां फलमाप्नोति सत्तमः | सुगन्धिचन्दननरसैर्लिङ्गमालिप्य भक्तितः | आलिप्यते सुरस्त्रीभिः सुगन्धैर्यक्षकर्दमैः || लिङ्गपूजाकरणदोषः तत्पूजाफलञ्च तत्रैव शिवनारदसंवादे || विना लिङ्गार्च्चनं यस्य कालो गच्चति नित्यशः | महाहानिर्भवेत्तस्य दुर्गतस्य दुरात्मनः | एकतः सर्वदानानि व्रतानि विविधानि च | तीर्थानि नियमा यज्ञा लिङ्गाराधनमेकतः | न लिङ्गाराधनादन्यत् पुरा वेदे चतुर्ष्वपि | विद्यते सर्वशास्त्राणामेष एव सुनिश्चितः | भुक्तिमुक्तिप्रदं लिङ्गं विविधापन्निवारणम् | पूजयित्वा नरो नित्यं शिवसायुज्यमाप्नुयात् | सर्वमन्यत् परित्यज्य क्रियाजालमशेषतः | भक्त्या परमया विद्वान् लिङ्गमेकः प्रपूजयेत् || मत्स्यसूक्ते षोडशापटले || अश्वमेधसहस्राणि वाजपेयशतानि च | महेशार्चनपुण्यस्य कलां नार्हन्ति षोडशीम् || लिङ्गपुराणे || बहुनात्र किमुक्तेन चराचरमिदं जगद् | शिवलिङ्गं समभ्यर्च्य स्थितमत्र न संशयः || मातृकाभेदतन्त्रे || शिवस्य पूजनाद्देवि ! चतुर्वर्गाधिपो भवेत् | अष्टैश्वर्ययुतो मर्त्त्यः शम्भुनाथस्य पूजनात् | स्वयं नारायणः प्रोक्तो यदि शम्भु प्रपूजयेत् | स्वर्गे मर्त्त्ये च पातले ये देवाः संस्थिताः सदा | प्. ६३०) तेषां पूजा भवेद्देवि ! शम्भुनाथस्य पूजनात् || षट्कर्म्मदीपिकाधृतकालोत्तरे नारदवाक्यम् || असारे खलु संसारे सारमेतच्चतुष्टयम् | काश्यां वासः सतां सङ्गो गङ्गाम्भः शम्भु पूजनम् || स्कन्दापुराणे || अग्निहोत्रास्त्रिवेदाश्च यज्ञाश्च बहुदक्षिणाः || शिवलिङ्गार्च्चनस्यैते कोट्यंशेनापि ते समाः | छित्वा भित्त्वा च भूतानि हित्वा सर्वमिदं जगत् | यजेद्देवं विरूपाक्षं न स पापेन लिप्यते | अनेकजन्मसाहस्रं भ्राम्यमाणश्च योनिषु | कः समाप्नोति वै मुक्तिं विना लिङ्गार्च्चनं नरः || वीरमित्रोदयधृतस्कन्दपुराणे || ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वाप्यनुलोमजः | पूजयेत् सततं लिङ्गं तत्तन्मन्त्रेण सादरम् | तत्तन्मन्त्रेणेति यथायोग्यं वैदिकतान्त्रिकनाममन्त्रेणेत्यर्थः || लिङ्गपुराणे || मूले ब्रह्मा तथा मध्ये विष्णुस्त्रिभुवनेश्वरः | रुद्रोपरि महादेवः प्रणवाख्यः सदाशिवः | लिङ्गवेदो महादेवीलिङ्गं साक्षान्महेश्वरः | तयोः सम्पूजनान्नित्यं वेदी देवश्च पूजितौ || अथ पारदशिवलिङ्गमाहात्म्यम् || मातृकाभेदतन्त्रे अष्टमपटले || ज्योतिर्मयं महालिङ्गं कैलासनगरे प्रिये ! | तस्यैव षोडशांशैकः काश्यां विश्वेश्वरः स्थितः | पूर्णलिङ्गं महेशानि ! शिवबीजं न चान्यथा | शिलामध्ये यथाचक्रं लक्ष्मीनारायणः परम् | पारदस्य शतांशैको लक्ष्मीनारायणो न हि | पकारं विष्णुरूपञ्च आकारं कालिका स्वयम् | रेफं शिवं दकारञ्च ब्रह्मरूपं न चान्यथा | पारदं परमेशानि ! ब्रह्मविष्णु शिवात्मकम् | यो यजेत् पारदं लिङ्गं स एव सम्भुरव्ययः | आजन्ममध्ये यो देवि ! एकदा यदि पूजयेत् | स एव धन्यो देवेशि ! स ज्ञानी स च तत्त्ववित् | स ब्रह्मवेत्ता स धनी स राजा भुवि पूज्यते | अणिमादिभूतीनामीश्वरः साधकोत्तमः || अथ पारदशिवलिङ्गनिर्माणविधिः || तत्रैव || पारदे शिव निर्माणे नानाविघ्नं यतः प्रिये ! | प्. ६३१) अत एव महेशानि ! शान्तिस्वस्त्ययनं चरेत् | पारदं शिबबीजं हि टाडनं न हि कारयेत् | ताडनाद्वित्तनाशः स्यात्ताडनाद्वित्तहीनता | ताडनाद्रोगयुक्तत्वं ताडनान्मरणं भवेत् | द्वादशां पार्थिवं लिङ्गमुपचारैश्च षोडशैः || पट्टादिसूत्रनिर्म्माणरचितं शुक्लमेव वा | पुरुषस्य यथायोग्यं युग्मवस्त्रं निवेदयेत् | भोगयोग्यं प्रदातव्यं मधुपर्कं कुलेश्वरि ! | अलङ्कारं यथाशक्ति दद्यात् कल्याणहेतवे | पूजयेद् बहुयत्नेन विल्वपत्रेण पार्वति ! | तोडलोक्तेन विधिना प्रत्येकेनायुतं जपेत् | आदौ पञ्चाक्षरं मन्त्रमष्टोत्तरशतं जपेत् | पूजान्ते प्रजपेत् पश्चात् प्रसादाख्यं महामनुम् | दक्षिणान्तं समाचर्यय हविष्याशी जितेन्द्रियः | ताम्बूलञ्च तथा मत्स्यं वर्जयेन्न कदाचन | अस्मिंस्तन्त्रे हविष्यान्नं ताम्बूलं मीनमुत्तमम् | होमयेत् परमेशानि ! दशांशं वा शतांशकम् | होमस्य दक्षिणा कार्या तदा विघ्नैर्न लिप्यते | ततः परस्मिन् दिवसे पारदमानयेत् सुधीः | तस्योपरि जपेन्मन्त्रं सर्वबन्धं नवात्मकम् | व्योमबीजं शिवार्णञ्च वर्णाद्यं बिन्दुमस्तकम् | वायुबीजं चेन्दुयुतं त्रितयं त्र्यम्बकं प्रिये ! | इमं मन्त्रं महेशानि ! प्रजपेदौषधोपरि | पारदे प्रजपेन्मन्त्रमष्टोत्तरशतं यदि | तदैवौषधयोगेन बद्धो भवति नान्यथा | ततः परस्मिन् दिवसे शृणु यः प्राणवल्लभे ! | वरयेत् सर्वकर्त्तारं यथोक्तविभवावधि | सुवर्णं चम्पकाकारं कर्णयुग्मे निवेशयेत् | चतुष्कोणयुतं स्वर्णं ग्रीवायां सुमनोहरम् | हस्तद्वये महेशानि ! दद्याद्बलययुग्मकम् | बलयं शुक्लवर्णञ्च अङ्गुरीयं तथैव च | ऊर्मी दद्यात् पीतवर्णां क्षौमवस्त्रयुगं शिवे ! | ऊर्मीं अङ्गुरीयकम् | एवं कृत्वा महेशानि ! शिवरूपं विचिन्तयेत् | अथातः सम्प्रवक्ष्यामि विधानं शृणु पार्वति ! | प्रस्तरे चैव संस्थाप्य झिण्टीपत्ररसेन च | प्. ६३२) प्रणवेण समालोड्य कुर्यात् कर्दमवत् प्रिये ! | निर्माणयोग्यं तद्द्रव्यं यदि स्यात् सुरसुन्दरि ! | तदा निर्माय तल्लिङ्गं पुनर्दृढतरं चरेत् | खपुष्पसंयुते वस्त्रे अङ्गारे च करौषके | किञ्चिदुष्णं प्रकर्तव्यं यतो दृढतरं भवेत् | अवधूतेरुच्यते | मुण्डरिलिज्जे सूतपर ओचकोदिज्जे मण्डलभरके खलकरिज्जे | ओहो ययायकादे प्राय ओच्छे शिवनिर्माय | ओच्मे दिज्जे जडके पाणि वज्रसमानकरके जानि || इति पारदशिवलिङ्गनिर्माणविधिः || शिवलिङ्गोत्पत्तिस्तु नारदपञ्चरात्रे तृतीयरात्रे प्रथमाध्याये नारदब्रह्मसंवादे || यथा || ब्रह्मोवाच || पुरा त्वं चञ्चलं ज्ञात्वा त्वदग्रे न प्रकाशितम् | इदानीं योगिनां ज्ञात्वा कथयामि न संशयः | अतिगुह्यमतिगुह्यमतिगुह्यं न संशयः | गोपितव्यं गोपितव्यं गोपितव्यं त्वयापि च | शम्भुना गोपितं तन्त्रे तन्त्रान्तरे प्रकाशितम् | शृणु तत्कथयाम्यद्य सावधानावधारय | सर्गादौ विविधाः सर्गा मया सृष्टा हि नारद ! | देवदानव दैत्याश्च गन्धर्वयक्षराक्षसाः | सर्वे स्त्रीवशगाः श्रेष्ठा मैथुनाज्जायते प्रजा | केवलं हि शिवः शम्भुर्दारग्रहणकर्मणि | कदापि न मनश्चक्रे दृष्ट्वा चिन्तापराः सुराः | मामेव शरणं नग्मुः सेन्द्रा देवासुरादयः | प्रणिपत्य स्तुति कृत्वा उपतस्थुः समाहितः | प्रोचुः प्राञ्जलयः सर्वे भयाद्गद्गदमानसाः || देवाद्या ऊचुः || उद्वाहिता वयं सर्वे भवनपि जनार्दनः | केवलं हि महादेवो देवदेवो जगत्पतिः | विवाहे न मनश्चक्रे कया वा मोह्यते शिवः | उपायं चिन्तय विभो ! सदारः कथमीश्वरः | येन स्याज्जगतां नाथस्तत् कुरुष्व दयानिधे ! | इति श्रुत्वा वचस्तेषां ततो ब्रह्मा प्रजापतिः | सह तैर्गरुडारूढं जगाम कमलासनः | उवाच तं जगन्नाथं विष्णुं कमललोचनम् || ब्रह्मोवाच || सृष्टा मया सुरश्रेष्ठ ! मानुषा मैथुनोद्भवाः | प्. ६३३) सर्वे स्त्रैणा विना शम्भु यत् कर्त्तव्यं वदस्व मे || श्रीभगवानुवाच || एभिः सह महाबाहो ! गच्छामस्त्वमहं शिवम् | कर्त्तव्यं सूचितं तेन अनुज्ञाते यथाविधि | किन्तु तद्योग्यनारीन्तु विवाहार्थं प्रकल्पय || ब्रह्मोवाच || दक्षं गच्छामहे सर्वे अनुज्ञापय तं हरे ! | आद्याशक्तिं महामायां प्रसादयतु वै लघु | कन्या भूत्वा महाशम्भुं मोहयिष्यति शङ्करम् | एवमुक्त्वा तु तैः जग्मतुर्विधिकेशवौ | यत्र दक्षो महातेजाः प्रोचतुः कार्ययमात्मनः | उवाच दक्षं तद्युक्तं तपस्तप्तुं प्रजापतिः | ब्रह्मा विष्णुश्च सर्वे ते तपसा तोसयेच्छिवाम् | आविर्बभूव सा देवी कालिका गददीश्वरी | प्राह मां वः किमर्थन्तु समुत्कण्ठाः सुरासुराः || देव्युवाच || शीघ्रं रूपं यथाकामं भवतां प्रार्थने फलम् | अचिरात्तत् प्रदास्यामि सत्यं सत्यं न संशयः || देवाद्या ऊचुः || भूत्वा तु दक्षकन्या त्वं शङ्करं परिमोहय | अस्माकं वाञ्छितञ्चैतत् कुरु सिद्धिं सदा शिवे ! | एतत् श्रुत्वा वचस्तेषां निरीक्ष्य कमलासनम् | उवाच वच्मि याविष्टा कालिका जगदीश्वरी || देव्युवाच || शम्भुरद्य तनो बालः किं मां सन्तोयिष्यति | मम योग्यं पुमांस्त्वन्तु अन्यं वै परिकल्पय || ब्रह्मोवाच || शम्भुः सर्वगुरुर्देवो ह्यस्माकं परमेश्वरः | महामत्त्वो महातेजाः स ते तोषं करिष्यति | शम्भु तुल्यः पुमान्नास्ति कदाचिदपि कुत्रचित् | इत्युक्ता ब्रह्मणा देवी वाचमित्याह चेश्वरी | दक्षाय दर्शनं दत्त्वा उवाच उच्यतां वरः | दक्षोऽपि दृष्ट्वा तां देवीं खड्गकर्त्तृधरां पराम् | खर्वां लम्बोदरीं व्याघ्रचर्मावृतकटिस्थलीम् | नीलोत्पलकपालाढ्यकरयुग्मां वरप्रदाम् | कृतकृत्यमिवात्मानं मेने दक्षः प्रजापतिः || दक्ष उवाच || यदि मे वरदासि त्वं देवानामपि वाञ्छितम् | मदीयतनया भूत्वा शङ्करं किल मोहय | तथेत्युक्त्वा जगद्धात्री अन्तर्द्धानं गता तदा | प्. ६३४) देवताश्च ततो नत्वा यत्र तेपे तपो हरः | सस्त्रीकाः परमात्मानमुपतस्थुर्जगत्पतिम् | प्रणेमुस्तुष्टुवुर्भक्त्या प्राहुर्गद्गदभाषिणः | देवाद्या ऊचुः || भगवन् ! देवदेवेश ! लोकनाथ ! महाशय ! | वयं सर्वे तु सस्त्रीकाः सृष्ट्यर्थं परमेश्वर ! | अतस्त्वं कुरु चोद्वाहं सृष्टिरक्षा यथा भवेत् | दक्षगेहे महाकाली मायेति परिकीर्तिता | जाता ते प्रीतये शम्भो ! सा ते योग्या न संशयः || ईश्वर उवाच || भवतां प्रीतये सम्यक् करिष्ये नात्र संशयः | उद्योगः क्रियतां क्षिप्रं विवाहाय ममैव हि | इत्युक्तास्तु सुराः सर्वे ईश्वरेण महात्मना | कृतकृत्या गताः सर्वे भवनं सर्वसुन्दरम् | दक्षाय कथयामासुः शङ्करेणोदितं वचः | ततो विवाहं निर्वर्त्य कृतकृत्या यथा गताः | गताः सर्वे महेशोऽपि सत्या सह तदा गृहम् | जगाम रेमे सत्या च चिरं निर्भरमानसः | अथ काले कदाचित्तु सत्या सह महेश्वरः | रेमे न शेके तं सुदुं सती श्रान्ताभवत्तदा | उवाच दीनया वाचा देवदेवं जगद्गुरुम् | भगवन्न हि शक्नोमि तव भारं सुदुःसहम् | क्षमस्व मां महादेव ! कृपां कुरु जगत्पते ! | निशम्य वचनं तस्या भगवान् वृषभध्वजः | निर्भरं रमणं चक्रे गाढं निर्दयमानसः | कृत्वा सम्पूर्णरमणं सती च त्यक्तमैथुना | उत्थानाय मनश्चक्रे उभयोस्तेज उत्तमम्म् | पपात धरणीपृष्ठे तैर्व्याप्तिमखिलं जगत् | पाताले भूतले स्वर्गे शिवलिङ्गास्तदाभवन् | तेन भूता भविष्याश्च शिवलिङ्गाः सयोनयः | यत्र लिङ्गं तत्र योनिर्यत्र योनिस्ततः शिवः | उभयोश्चैव तेजोभिः शिवलिङ्गं व्यजायत || इति शिवलिङ्गोत्पत्तिकथनम् || शिवलिङ्गपूजायां सर्वेषामधिकार उक्त उत्पत्तितन्त्रे चतुःषष्टिपटले || शाक्तो वा वैष्णवो वापि सौरो वा गाणपोऽथवा | प्. ६३५) शिवार्च्चनविहीनस्य कुतः सिद्धिर्भवेत्प्रिये ! | अनाराध्य च मां देवि ! योऽर्च्चयेद्देवतान्तरम् | न गृह्णाति महादेवि ! शापं दत्त्वा व्रजेत् पुरम् | पर्वताग्रसमं देवि ! मिष्टान्नादिक्रमेण हि | फलानि बहुलान्येव पुष्पाण्येव यथाविधि | सुमेरुसदृशं चान्नं नानाविधं महेश्वरि ! | सूपादिकं महेशानि ! यदि स्यात् सागरोपमम् | यद्दत्तं पुष्पनैवेद्यं सर्वं विष्ठामयं भवेत् | शिवार्च्चनविहीनो यः पूजयेद्देवतान्तरम् | विशेषतः कलियुगे स नरः पापभाग्भवेत् | लिङ्गार्च्चनतन्त्रे प्रथमपटलेऽपि || सर्वपूजासु देवेशि ! लिङ्गपूजा परं पदम् | लिङ्गपूजां विना देवि ! अन्यपूजां करोति यः | विफला तस्य पूजा स्यादन्ते नरकमाप्नुयात् | तस्माल्लिङ्गं महेशानि ! प्रथमं परिपूजयेत् | यद्राज्यं लिङ्गपूजायां रहितं सततं प्रिये ! | तद्राज्यं पतितं मन्ये विष्ठाभूमिसमं स्मृतम् | ब्रह्म विट् क्षत्रियो देवि ! यदि लिङ्गं न पूजयेत् | तत्क्षणात् परमेशानि ! त्रयश्चाण्डालतामियुः | शूद्रश्च परमेशानि ! सदा शूकरवद्भवेत् | शिवार्चनन्तु देवेशि ! यस्मिन् गेहे विवर्जितम् | विष्ठागर्त्तसमं देवि ! तद्गृहं विद्धि पार्वति ! | अन्नं विष्ठा पयो मूत्रं तस्मिन् वेश्मनि पार्वति ! | शाक्तो वा वैष्णवो वापि शैवो वा परमेश्वरि ! | आदौ लिङ्गं प्रपूज्याथ विल्वपत्रैर्वरानने ! | पश्चादन्यं महेशानि ! लिङ्गं प्रार्थ्य प्रपूजयेत् | अन्यथा मूत्रवत् सर्वं शिवपूजां विना प्रिये ! || वीरमित्रोदयधृतस्कन्दपुराणे शिवलिङ्गमधिकृत्य || दर्शनात् स्पर्शनात्तस्य लभन्ते निर्वृतिं नराः | तस्य पुण्यं मया वक्तुं सम्यग्युगशतैरपि | शक्यते नैव विधिवत्तस्मात् तं स्थापयेच्छिवम् | सर्वेषामेव वर्णानां विभोर्दिव्यं वपुः शुभम् | सुकृतं भावनायोग्यं योगिनां निष्फलं तथा | शिवलिङ्गं समुल्लङ्घ्य योऽर्चयेदन्यदेवताः | प्. ६३६) स नृपः सह देशेन रौरवं नरकं व्रजेत् | ब्रह्मादयः सुराः सर्वे राजानः समहर्षिकाः | मानवा मुनयश्चैव सर्वे लिङ्गं यजन्ति च | विष्णुर्नारायणो हत्वा ससैन्यं ब्रह्मणः सुतम् | स्थापितं विधिवद्भक्त्या लिङ्गं तीरे नदीपतेः | कृत्वा पापसहस्राणि हत्वा विप्रशतं तथा | पापात् समाश्रितो लिङ्गं मुच्यते नात्र संशयः | सर्वे लिङ्गमया लोकाः सर्वे लिङ्गे प्रतिष्ठिताः | तस्मादभ्यर्चयेल्लिङ्गं यदीच्छेच्छाश्वतं पदम् | सर्वं लिङ्गमयं लोकं सर्वं लिङ्गे प्रतिष्ठितम् | तस्मात् सर्वप्रयत्नेन स्थापयेत् पूजयेच्च तत् | ब्रह्मा हरश्च भगवान् विश्वे देवा उमा हरिः | लक्ष्मीर्धृतिः स्मृतिः प्रज्ञा विधिर्दुर्गा शची तथा | रुद्राश्च वसवः स्कन्दो विशाखः शाख एव च | नैगमेशश्च भगवान् लोकपाला ग्रहास्तथा | सर्वे नन्दिपुरोगाश्च गणा गणपतिः प्रभुः | पितरो मुनयः सर्वे कुवेराद्याश्च सत्तमाः | आदित्या वसवः साध्या अश्विनौ च भिषग्वरौ | विश्वे देवाः समहतः पशवः पक्षिणो मृगाः | ब्रह्मादि स्थावरं यच्च सर्वं लिङ्गे प्रतिष्ठितम् | तस्मात् सर्वप्रयत्नेन स्थापयेल्लिङ्गमैश्वरम् | पलेन स्थापितं लिङ्ग पूजयेद्यदि मानवः || अन्यत्रापि || मूले ब्रह्मा वसति भगवान् मध्यभागे च विष्णुरग्रे शम्भुः पशुपतिरजो रुद्रमूर्तिर्वरेण्यः | तस्माल्लिङ्गं गुरुसुरतरुं स्थापयेत् पूजयेद्वायस्मात् पूज्यो गणपतिरसौ देवमुख्यैः समस्तैः | गन्धैः पुष्पैः सुगन्धैर्बहुतरबलिभिः स्तोत्रमन्त्रोपचारैर्नित्यञ्चाप्यर्चयन्ति त्रिदशवरनुतं लिङ्गमूर्तिं महेशम् | गर्भाधानादिनाशस्त्वथ भयरहिता देवगन्धर्वमुख्यैः सिद्धैर्वन्ध्याश्च पूज्या गणवरनमितास्ते भजन्त्यप्रमेयाः || तस्माद्भक्तयोपचारेण स्थापयेत् परमेश्वरम् | पूजयेच्च विशेषेण लिङ्गं सर्वार्थसिद्धये || तथा | तस्मात् सदा पूजनीयो लिङ्गमूर्तिर्महेश्वरः | यावत् पूजा सुरेशस्य तावद्देहस्थितिर्दिवि | प्. ६३७) पूजनीयः शिवो नित्यमतः श्रद्धासमन्वितैः | सर्वं लिङ्गमयं लोकं सर्वं लिङ्गे प्रतिष्ठितम् | तस्मात् सम्पूजयेल्लिङ्गं यदीच्छेत् सिद्धिमात्मनः || सर्वे लिङ्गार्चनादेव देवा दैत्याश्च दानवाः | यक्षा विद्याधराः सिद्धा राक्षसाः पिशिताशिनः | अर्चयित्वा लिङ्गमूर्त्तिं संसिद्धा नात्र संशयः | तस्मालिङ्गं यजेन्नित्यं येन केनापि भोः ! सुराः ! || तथा | ये वाञ्छन्ति महाभोगान् राज्यं वा त्रिदशालये | तेऽर्चयन्तु सदाकालं लिङ्गरूपं महेश्वरम् | छित्वा भित्त्वा च भूतानि हत्वा सर्वमिदं जगत् | यजेदेकं विरूपाक्षं न स पात्रैः प्रलिप्यते || एतानि वीरमित्रोदयधृतानि || अथ त्रैकालिकलिङ्गपूजाफलम् || मत्स्यसूक्ते || प्रातरुत्थाय यो लिङ्गं भक्त्या सम्पूजयेत् क्वचित् | कपिलानां शतं दत्त्वा यत् फलं तदवाप्नुयात् | मध्यन्दिनकरे प्राप्ते यो लिङ्गं प्रतिपूजयेत् | सम्पूर्णां पृथिवीं दत्त्वा यत् फलं तदवाप्नुयात् || तथा || अष्टोत्तरसहस्रन्तु प्रत्यहं पूजयेच्छिवम् | एककालं त्रिकालं वा स पुनाति कुलत्रयम् | अष्टाष्टकं वा देवेशि ! शतं वापि तदर्द्धकम् | तदेव सकलं विन्द्यान्मकारस्थसहस्रकम् | द्रव्यमायुः स्त्रियं पुत्त्रान् यच्चान्यन्मनसेप्सितम् | स्फाटिकं लिङ्गमासाद्य यजमानः समश्नुते | वरं प्राणपरित्यागः शिरसो वापि कर्त्तनम् | न चैवापूज्य युञ्जीत शिवलिङ्गं महेश्वरम् || षट्कर्मदीपिकाधृतस्कन्दपुराणेऽपि || प्रातरुत्थाय यो लिङ्गं भक्त्या सम्पूजयेत् सकृत् | कपिलालक्षदानेन यत् फलं तदवाप्नुयात् | मध्यन्दिनकरे प्राप्ते यो लिङ्गं परिपूजयेत् | सम्पूर्णां पृथिवीं दत्त्वा यत् फलं तदवाप्नुयात् | वारुणीमाश्रिते सूर्ये शिवं समर्चयेत्तु यः | गवां शतसहस्रस्य दत्तस्य फलमाप्नुयात् || प्. ६३८) अथ कामनाभेदे पार्थिवशिवलिङ्गसङ्ख्या वीरमित्रोदयधृता यथा | संख्या पार्थिवलिङ्गस्य यथाकामं निगद्यते | सृल्लिङ्गं पार्थिवं नाम भुक्तिमुक्तिकरं परम् | देशकालादिकं ज्ञात्वा कुर्यालिङ्गं फलप्रदम् | न करोति यदा ज्ञात्वा न कार्यं तस्य सिध्यति | विद्यार्थी शतसहस्रं धनार्थी च तदर्द्धकम् | पुत्रार्थी सार्द्धसाहस्रं कन्यार्थी च शतत्रयम् | विद्वान् लिङ्गायुतं कुर्यात् सर्वपापहरं परम् | राज्यार्थी शतसाहस्रं कान्तार्थी शतपञ्चकम् | मोक्षार्थी कोटिगुणितं भूतिकामः सहस्रकम् | रूपार्थी त्रिसहस्रन्तु तीर्थार्थी द्विसहस्रकम् | सुहृत्कामः सहस्रन्तु वस्त्रार्थं शतमष्टकम् | मारणार्थं सप्तशतं मोहनार्थं शताष्टकम् | उच्चाटनवशश्चैव सहस्रन्तु यथोक्ततः | स्तम्भने च सहस्रन्तु मारणे च तदर्धकम् | महाराजभये पञ्चशतञ्चापदि सङ्कटे | सहस्रमयुतं सर्वमाकदं परिकीर्तितम् | एकं पापहरं प्रोक्तं द्विलिङ्गं चार्थसिद्धिदम् | त्रिलिङ्गं सर्वकामानां कारणं परमीरितम् || तथा || लिङ्गानामयुतं कृत्वा पूजा राजभयं हरेत् | सहस्राणि च लिङ्गानाम् निगडान्मोचयेद्ध्रुवम् | कारागृहविमुक्त्यर्थमयुतं कारयेद्बुधः || डाकिन्यादिभये पञ्चसहस्रं कारयेत्तदा | सहस्राणाञ्च पञ्चाशदपुत्रो हि प्रकारयेत् | लिङ्गार्च्चनतन्त्रे नवमपटले || अनेन च क्रमाद्देवि ! लक्षं यस्तु प्रपूजयेत् | सर्वाभीष्टफलं देवि ! लभते नात्र संशयः || तथा || एकीकृत्य महेशानि ! युगलं न तु पूजयेत् | एकीकृत्य महेशानि ! दशपञ्चशतानि च | प्रत्येकेनाथ वा देवि ! विल्वपत्रैः प्रपूजयेत् | एकैकं पूजयेल्लिङ्गं युगलं न तु पूजयेत् | दरिद्रो जायते देवि ! युगलस्य तु पूजनात् १ || इति लिङ्गयुग्मपूजानिषेधः || इति श्रीप्राणतोषिण्यां पञ्चमे भक्तिकाण्डे शाखाकथनं नाम द्वितीयः परिच्छेदः || प्. ६३९) अथ शिवपूजा || मत्स्यसूक्ते महातन्त्रे पञ्चदशपटले || तीर्थमृत्स्नां समाहृत्य निर्माय लिङ्गमद्भुतम् | तीर्थाभावे महेशानि ! नदीमृत्स्नां शुचिस्मिते ! | नद्यभावे महेशानि ! क्षुद्राया मृत्तिकां प्रिये ! || नदीक्षुद्रयोर्लक्षणमपि || पर्वतप्रभवा देवि ! नदीनाम्नीत्युदाहृतम् | एतद्भिन्ना महेशानि ! नदी क्षुद्रा इति प्रिये ! | निर्झरस्य च देवेशि ! मृत्स्ना सम्पत्प्रदायिनी | तथा चैव सरोत्पन्ना नानासुखप्रदायिनो | सर्वाभावे महेशानि ! गोष्पदस्थाञ्च मृत्तिकाम् | अथवा परमेशानि ! यत्र चित्तं प्रसीदति | सुपीनं सुन्दरं रम्यं शर्करारहितं सदा | निर्म्माय पार्थिवं लिङ्गं कुण्डलीसहितं प्रिये ! | यो लिङ्गं परमेशानि ! स रुद्रः परमेश्वरः | कुण्डली वेष्टनी तस्याः सा देवी परमेश्वरी | शिवस्य पूजनाद्देवि ! देवीदेवौ च पूजितौ | एकस्य पूजनाद्देवि ! द्वयोरेव प्रपूजनम् || लिङ्गार्च्चनतन्त्रे द्वितीयपटले || मृत्स्ना तु परमेशानि ! वर्णभेदेन सुन्दरि ! | वर्णभेदेन ब्राह्मणादिवर्णभेदेन | वर्णभेदस्तु पूर्वमुक्तः | सम्मन्त्र्य मातृकामन्त्रैश्चानुलोमविलोमतः | जप्त्वा तु परमेशानि ! दशधा परमेश्वरि ! | इति मन्त्रं जपित्वा वै मृत्स्नां प्रार्थ्य वरानने ! | सर्वशक्तिमये ! देवि ! मृत्तिके ! त्रिदशेश्वरि ! | निर्म्माय पार्थिवं लिङ्गं शिवपूजां करोम्यहम् | त्वयि कामश्च धर्मश्च तत्क्रमे सत्यपीश्वरि ! | चतुर्वर्गप्रदे ! देवि ! नानारत्नविभूषिते ! | त्वां विना परमेशानि ! कुतो मोक्षः कुतः सुखम् | अर्थः कामञ्च देवेशि ! त्वां विना न हि जायते | ओं ह्रीं मृत्तिके ! दुष्कृतिहरे ! ह्रीं ओं | इति मन्त्रं समुच्चार्य गृह्णीयात् मृत्तिकां प्रिये ! | ओं हराय नम इति गृह्णीयाद्वा शुचिस्मिते ! | अज्ञानात् परमेशानि ! यो गृह्णीयात्तु मृत्तिकाम् | विफला तस्य सा पूजा पार्थिवस्य च लिङ्गके | निर्माणं मातृकामन्त्रैरो/ महेश्वराय नम इति प्रिये ! | प्. ६४०) उच्चार्य मातृकामन्त्रं शूलप्राणे ! ततः परम् | सुप्रतिष्ठितो भव इत्युच्चार्य मातृकां ततः | प्राणं नियोजयेद्देवि ! पार्थिवे शिवलिङ्गके | प्राणप्रतिष्ठामन्त्रेण प्राणान्नियोजयेत्ततः || तोडलतन्त्रे पञ्चमपटलेऽपि || शृणु देवि ! प्रवक्ष्यामि पार्थिवं शिवपूजनम् | तत्रादौ प्रीणयेद्देवि ! गुरुदेवमनन्यधीः | ओं हराय नमस्कारं मृत्तिकामाहरेत् सुधीः | महेश्वराय नमस्कारं निर्म्माय बहुयत्नतः | शूलपाणे ! इहोच्चार्य सुप्रतिष्ठितो भवेति च | अनेन मनुना देवि ! जीवन्यासं समाचरेत् | हकारं विन्दुसंयुक्तं दीर्घयुक्तं षडङ्गकम् || लिङ्गार्च्चनतन्त्रे || भूतशुद्धिं महेशानि ! प्रथमं परिकीर्त्तितम् | ततस्तु मातृकान्यासं कुर्यात् परमयत्नतः | प्राणायामं ततः कृत्वा शिवं ध्यायेत् शुचिस्मिते ! || ध्यानन्तु तोडलतन्त्रे || तस्य ध्यानं प्रवक्ष्यामि शृणुष्व सुसमाहिते ! | ओं ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम् | पद्मासीनं समन्तात् स्तुतममरगणैर्व्याघ्रकृत्तिं वसानं विश्वाद्यं विश्वबीजं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रं || रत्नाकल्पोज्ज्वलाङ्गमिति रत्नस्याकल्पो वेशस्तेनोज्ज्वलाङ्गं यस्य तम् | व्याघ्रकृत्तिश्चर्म वस आच्छादने तद्वसानं तदाच्छादकमित्यर्थः || पुष्पं शिरसि सन्धार्य मानसैः पूजनं चरेत् | पुनर्ध्यात्वा महेशानि ! शिरे पुष्पं निधाय च | पिनाकधृक् इति चोच्चार्यय इहावह द्विधा वदेत् | इह तिष्ठ ततो द्वन्द्वं सन्निधेहि द्वयं इह | इह सन्निहतो रुद्र ! स्वशब्दञ्च ततो वदेत् | यावत्पूजां समुच्चार्य ततश्चैव करोम्यहम् | स्नानीयञ्च पशुपतिं ङेयुतञ्च नमश्चरेत् || पूजामन्त्र स्तु वेदाद्यं यो जपेद्देवि ! ब्राह्मणः साधकोत्तमः | वेदाद्यः प्रणवः ! एतत्पाद्यं महेशानि ! षडक्षरमनुं ततः | नमस्कारं समुच्चार्य सव दद्याद्विचक्षणः || प्. ६४१) षडक्षरप्रमाणन्तु तत्रैव || नकुलीशं समुद्धृत्य मनुस्वरविभूषितम् | विन्दुनादकलायुक्तं प्रसादाख्यं महेश्वरम् | नकुलीहो हकारः | मनुस्वर औकारः | अस्य मन्त्रस्य माहात्म्यमूर्द्धाम्नाये मयोदितम् | नमस्कारं समुद्धृत्य वान्तं नेत्रसमन्वितम् | वारुणं मुखवृत्तञ्च वायुं ललाटसंयुतम् | अमुं पञ्चाक्षरं मन्त्रं पञ्चाम्नायफलप्रदम् | प्रणवादिर्यदा देवि ! तदा मन्त्रः षडक्षरः | नमस्कारो नम इति स्वरूपः | वान्तः शकारः | नेत्रं प्रथमोपस्थितत्वाद्दक्षिणं तेन इकारः | वारुणो यकारः | मुखवृत्तमाकारः | आयुर्यकारो ललाटमकारः | प्रसादख्यं समुद्धृत्य अर्द्धनारीश्वराय च | पुनः प्रसादमुद्धृत्य मन्त्रं परमगोपनम् | एवं बहुविधाकारं विग्रहं मे नगात्मजे ! | पूजयित्वा महेशानि ! चाष्टमूर्तीः प्रपूजयेत् | सर्वो भवस्तथा रुद्र उग्रो भीमः पशोः पतिः | महादेवञ्च ईशानो ङेयुतं कुरु यत्नतः | क्षितिं जलं तथा चाग्निं वायुञ्चाकाशमेव च | यजमानं तथा सोमं सूर्यञ्च मूर्तिना सह | सर्वत्र ङेयुतं कृत्वा पूजयेत् साधकोत्तमः | प्रणवादिनमोऽन्तेन वामावर्तेन पूजयेत् | मूर्त्तयोऽष्टौ शिवस्यैताः पूर्वादिक्रमयोगतः | आग्नेयान्ताः प्रपूज्यास्ता वेद्यां लिङ्गे शिवं यजेत् | अष्टोत्तरसहस्रं वा शतं वा प्रजपेत्ततः | ओं गुह्यातिगुह्यगोप्ता त्वं गृहाणास्मत्कृतं जपम् | सिद्धिर्भवतु मे देव | त्वत्प्रसादात्वयि स्थिते | ततः स्तोत्रं समादाय जपञ्चैव समर्पयेत् | मुखवाद्यं ततः कृत्वा चाष्टाङ्गं प्रणमेत् सुधीः | संहारेण महादेव ! क्षमस्वेति विसर्जयेत् | अथातः सम्प्रवक्ष्यामि सूत्रं परमगोपनम् | हरो महेश्वरश्चैव शूलपाणिः पिनाकधृक् | पशुपतिः शिवश्चैव महादेव इति क्रमात् | अष्टमूर्त्तीस्ततो देवि ! पूजयेत् साधकोत्तमः | ततो जपेन्महेशानि ! मुखवाद्यं ततः परम् || प्. ६४२) मन्त्रतन्त्रप्रकाशेऽपि || मृदाहरणसङ्घट्टः प्रतिष्ठा ध्यानमेव च | स्थापनं पूजनञ्चैव विसर्जनमिति क्रमात् | हरो महेश्वरश्चैव शूलपाणिः पिनाकधृक् | पशुपतिः शिवश्चैव महादेव इति क्रमात् | न प्राचीमग्रतः शम्भोर्नोदीचीं शक्तिसंश्रिताम् | न प्रतीचीं यतः पृष्ठमतो दक्षं समाश्रयेत् || तन्त्रान्तरे || शर्वो भवश्च रुद्रश्च तथोग्रो भीम एव च | पशुपतिः शिवश्चैव ईशानश्चेति कीर्त्तिताः | क्षितिर्जलं तथा वह्निर्वायुराकाशमेव च | यजमानश्च सोमश्च सूर्यश्चेत्यष्टमूर्त्तयः | वामावर्तेन वेद्याञ्च तं पूज्याष्टौ च मूर्त्तयः | यजमानः पूजक आत्मेति यावदत एव महिम्नः स्तवे-त्वमु ! धरणिरात्मा त्वमिति च | इति पुष्पदन्तेनोक्तम् || वामावर्तेन वेद्याञ्च सम्पूज्याष्टौ च मूर्त्तयः || तथा || मूर्त्तयोऽष्टौ शिवस्यैताः पूर्वादिक्रमयोगतः | आग्नेयान्ताः प्रपूज्यास्ता वेद्यां लिङ्गे शिवं यजेत् || तोडलमन्त्रे || एतदन्यन्न कर्त्तव्यं शक्तिदीक्षापरो यदि | निषिद्धाचरणाद्देवि ! पापभाक् जायते नरः | न्यूनाधिकं महेशानि ! यदि पूजादिकं चरेत् | स गुरुश्चापि शिष्यश्च शिवहत्यां प्रयच्छति | न्यूनाधिकं महेशानि ! यदि चैकाक्षरं भवेत् | वर्णसंख्या महेशानि ! ब्रह्महत्या भविष्यति | अत एव स पापिष्ठः सत्यं सत्यं सुरेश्वरि ! || एवं पूजां विधायादौ ततश्चान्यान् प्रपूजयेत् | आदौ शिवं पूजयित्वा शक्तिपूजा ततः परं | नतु वा मूत्रवत् सर्वं गङ्गातोयं भवेद्यदि | अत एव महेशानि ! आदौ लिङ्गं प्रपूजयेत् | लिङ्गार्चनतन्त्रे नवमपटले || सम्पूज्य पार्थिव लिङ्गं गन्धपुष्पादिभिः प्रिये ! | ततः पञ्चमुखे देवि ! यद्दत्तं पुष्पचन्दनम् | नैवेद्य त्रिविधं रम्यं सुगन्धं गन्धवर्जितम् | विल्वपत्रञ्च कह्लारं तगा मल्लिकां तथा | मालतीं यूथिकां देवि ! करवीरं मनोहरम् | पद्मञ्च केतकीं कुन्दं तथा ह्यामलकीं प्रिये ! | प्. ६४३) कुमुदं कोकनदञ्चैव सर्वञ्च वनसम्भवम् | दूर्वाञ्च तुलसीश्चैव दत्त्वा सम्पूज्य पार्थिवम् | अन्यानि यानि पुष्पाणि धुस्तूरादीनि पार्वति ! | धुस्तूरसदृशं पुष्पं मम ज्ञाने न विद्यते | गोकोटिदाने देवेशि ! यत् फलं परमेश्वरि ! | धुस्तूरस्य प्रदानेन समतां याति पार्वति ! | यानि यानि च पुष्पाणि ब्रह्माण्डे भावितानि च | तानि सर्वाणि ! देवेशि ! सन्न्यस्य पार्थिवोपरि || यद्यप्यर्थकाण्डे पुष्पाण्युक्तानि तथाप्यत्र निषिद्धपुष्पाणां प्रतिप्रसवदर्शनार्थं पुनर्लिखितानीति न पौनरुक्त्यम् | यानि यानि च धूपानि दीपानि विविधानि च | अन्यानि उपचाराणि यथोक्तविधिना प्रिये ! || दशमपटले || तथा तु विजयापत्रं सन्न्यस्य पार्थिवोपरि | दत्त्वा तु विजयापत्रमश्वमेधफलं लभेत् || लिङ्गस्य काम्यपूजा तु द्वादशपटले | पूर्वोक्तविधिना देवि ! सम्पूज्य पार्थिवं हरम् | आत्मगेहे महेशानि ! स्वशक्त्या च विनिर्मितम् | स्वशक्त्या स्वपत्न्या | चकारेणात्मगेहसम्बन्धिना अन्येन च विनिर्मितमित्यर्थः || षोडशैरुपचारैश्च सम्पूज्य पार्थिवं शिवम् | एवं वत्सरपर्यन्तं सुभक्त्या पूजयेच्छिवम् | रहस्यं हि ततः पश्चात् मासि मासि शुचिस्मिते ! | सम्पूज्य दिवसे लिङ्गं यावत्संख्यं वरानने ! | तत्रादौ परमेशानि ! तल्लिङ्गञ्च महेश्वरि ! | आदाय निशि मध्ये तु गत्वा विल्वतरुं प्रिये ! | अमावस्यां चतुर्दश्यां पौर्णमस्यां विशेषतः | कुजे वा शनिवारे वा सोमवारेऽपि पार्वति ! | पूजितव्यं प्रयत्नेन नग्नो भूत्वा महेश्वरि ! | विल्वपत्रैः प्रपूज्याथ सहस्रैः परमेश्वरि ! | विल्वपत्रं महादेवि ! कीटादिदोषवर्जितम् | कोमल मधुरं पत्रं पत्रत्रययुतं प्रिये ! | विल्वपत्रं विना देवि ! न हि पूजां समाचरेत् | पूजयेत् पूर्ववद्देवि ! यथानुष्ठानपूर्वकम् | ततः पर महेशानि ! | प्. ६४४) मन्त्रमुच्चार्य यत्नतः | विल्वपत्रं प्रदद्यात्तु एकैकेन पृथक् पृथक् | संशोध्य विधिवद्देवि ! विल्वपत्रं वरानने ! | एवं वत्सरपर्ययन्तं यः करोरि प्रसन्नधीः | मनसा कार्ययमुद्दिश्य एवं यस्तु प्रपूजयेत् | श्रीघ्रं काममवाप्नोति गणेशसदृशो भवेत् | अतः परं महेशानि ! गर्त्तं कृत्वा ततः स्थले | निक्षिप्य लिङ्गं तत्रैव जप्त्वा तु तत्र तत्र वै | नमस्कृत्य महेशानि ! क्षमस्वेति विसर्जयेत् | आत्मसमर्पणं कृत्वा रहस्यं परमेश्वरि ! | यः करोति प्रसन्नात्मा स एव श्रीसदाशिवः || प्रत्यहं लिङ्गपूजनमपि तत्रैव | प्रत्यहं परमेशानि ! यावज्जीवं धरातले | पूजयेत् परया भक्त्या लिङ्गं ब्रह्ममयं प्रिये ! || मातृकाभेदतन्त्रे द्वादशपटले || शुद्धाशुद्धविचारो हि नास्ति तच्छिवपूजने | येन येन प्रकारेण विल्वपत्रैः प्रपूजयेत् | सर्वसिद्धियुतो भूत्वा स नरः शिव एव हि | ब्रह्माण्डमध्ये ये देवास्तद्वाह्ये याश्च देवताः | ताः सर्वास्तृप्तिमायान्ति केवलं शिवपूजनात् | अथ शिवार्पितद्रव्यफलम् || तत्रैव || कुशाग्रमाणं यत्तोयं तत्तोयेन यजेद्यदि | सत्यं सत्यं हि गिरिजे ! तज्जलं सागरोपमम् | पुष्पञ्च मेरुसदृशं लिङ्गोपरिनियोजनात् | लिङ्गस्य मस्तके देवि ! यदन्नं परितिष्ठति | तदन्नस्य च दानेन क्षितिदानफलं लभेत् | एकया दूर्वया वापि योऽर्चयेच्छिवलिङ्गकम् | सर्वदेवस्य शीर्षे तु चार्घ्यदानफलं लभेत् | सामान्यतोयमानीय यदि स्नायान्महेश्वरम् | सार्द्धत्रिकोटितीर्थस्य स्नानस्य फलभाग्भवेत् || अथ रिष्टशान्तिः || वीरमित्रोदयधृतपाराशरमाधवीययोः || सहस्रकलसैरद्भिरभिषेकं करोति यः | शिवाय विधिवन्मन्त्रैश्चिरजीवी भवेन्नरः || एकाहशिवलिङ्गपूजाफलमपि तत्रैव || यः प्रदद्याद्गवां लक्षं दोग्ध्रीनां वेदपारगे | एकाहमर्च्चयेल्लिङ्गं तस्मात् पुण्यं ततोऽधिकम् | प्. ६४५) तस्याश्वमेधादधिकं फलं भवति नान्यथा || लिङ्गस्य सार्वकालिकपूजाविशेषो मत्स्यसूक्ते || घृतेन स्नापितं लिङ्गं चन्दनेनानुलेपयेत् | कुङ्कुमैः स्नापयित्वा च पूजयेत्तदनन्तरम् | श्वेतेन वस्त्रयुग्मेन तथा मुक्ताफलैः शुभैः | यक्षकर्दमधूपेन पयसा पायसेन च | पद्मसूत्रस्य कर्त्त्या च घृतदीपेन वाप्यथ | पूजेयं सर्वशुक्ला स्यात् सर्वकामफल प्रदा || निरग्नेरपि लिङ्गपूजनेन साग्निकत्वम् || तदुक्तम् मातृकाभेदतन्त्रे || पुष्पं गन्धं जलं द्रव्यं लिङ्गोपरि नियोजयेत् | शिवमध्ये महावह्निः स तु रुद्रः प्रकीर्तितः | रुद्रोपरि क्षिपेद्यद्यत्तदेव भस्मतां गतम् | साक्षाद्धोमो महेशानि ! शिवस्य पूजनाद्भवेत् | महायज्ञेश्वरो मर्त्त्यः शिवस्य पूजनाद्भवेत् || लिङ्गोपर्यर्पितद्रव्यस्याग्राह्यत्वमाह लिङ्गार्च्चनतन्त्रे द्वादशपटले || यद्यद्दत्तं महेशानि ! शिवाय परमात्मने | तत्सर्वं परमेशानि ! तत्क्षणात्तन्मयं भवेत् | यत्किञ्चिदुपचारं हि लिङ्गोपरि निवेदयेत् | तन्निर्माल्यं महेशानि ! अग्राह्यं परमेश्वरि ! || तस्याग्राह्यत्वनिदानज्ञानञ्च त्रयोदशपटले || तन्निर्माल्यं महादेव ! ब्रह्मादीनां सुदुर्लभम् | अग्राह्यं तव निर्माल्यं कथं वदसि योगभृत् ! || इति देवीप्रश्नानन्तरमीश्वरवचनम् || मध्यस्थानस्थितं यत्तु तन्मुखं परमेश्वरि ! | श्यामलं तत्तु ईशानं सदा ऊर्द्ध्वं शुचिस्मिते ! | तेजोमयं महेशानि ! मुखमूर्द्ध्वं वरानने ! | क्षीरोदमथने देवि ! उत्थितं गरलं महत् || इत्यादि प्रस्तुत्य || ततः करतलीकृत्य तद्विषं परमेश्वरि ! | ततः श्याममुखे देरि ! निपीय तद्विषं प्रिये ! | ततः प्रभृति देवेशि ! मुखं ज्वालायते सदा | कण्ठे तु गरलं भूत्वा सदा तिष्ठति कामिनि ! || चतुर्दशपटले || ईशानस्य महेशानि ! ज्ञानं परमदुर्लभम् | यस्य श्रवणमात्रेण शिवपूजाफलं लभेत् | प्. ६४६) ईशानं तन्मुखं देवि ! परं ब्रह्म वरानने ! | पत्रं वा यदि वा पुष्पं जलं वा वरवर्णिनि ! | अन्यद्धि परमेशानि ! उपचारं मनोहरम् | यो दद्यत् परमेशानि ! तन्मुखोपरि पार्वति ! | अग्राह्यं तत्तु निर्माल्यं साक्षाद्ब्रह्ममयं यतः | एतत्तु परमेशानि ! निर्माल्यं यस्तु धारयेत् | स भ्रष्टो जायते देवि ! निष्कृतिर्नास्ति तस्य वै | अग्राह्यं मम निर्माल्यमत एव वरानने ! | तथा | उपचारं स्थापयित्वा पूतं पात्रान्तरे प्रिये ! | कृत्वा तु मन्त्रपूतं हि उपचारं निवेदयेत् | वामदेवादिषु सदा मुखेषु वरवर्णिनि ! | भक्षणं मम देवेशि ! ब्रह्माण्डतृप्तिकारकम् | एतद्धि परमेशानि ! ब्रह्मादीनां सुदुर्ल्लभम् | अशुचिर्वा शुचिर्वापि उच्छिष्टं भक्षयेद्यदि | स एव परमाराध्यं साक्षाद् ब्रह्म शुचिस्मिते ! | निर्माल्यं दृढभक्तित्वात् गृह्णीयाद्यस्तु पार्वति ! | प्रथमं विष्णवे दद्याद्विष्णुमन्त्रेण सुन्दरि ! | निर्माल्यं मम देवेशि ! विष्णोर्ग्राह्यं महेश्वरि ! | देवासुरमनुष्याश्च गन्धर्वाः किन्नरादयः | ते सर्वे परमेशानि ! वराकाः क्षुद्रबुद्धयः | निर्माल्ये मम देवेशि ! अधिकारी भवेत् कथम् || मातृकाभेदतन्त्रे चतुर्थपटले || चण्डिकोवाच || कारणेन महामोक्षो निर्माल्येन शिवस्य च | श्रुतं वेदपुराणेषु तव वाक्ये महेश्वर ! | अग्राह्यं शिवनिर्माल्यमग्राह्यं कारणं विभो ! | मृषावाक्यं महादेव ! कथं वदसि योगभृत् ! || श्रीशङ्कर उवाच || चतुरशीतिलक्षेषु सहस्रेषु तथैव हि | भ्रमणं कुरुते जीवस्ततो मोक्षस्य भाजनम् | एतन्मध्ये महाज्ञानं यदि स्यात् सुरवन्दिते ! | तदैव मोक्षमाप्नोति भ्रमणं कस्य वा भवेत् | यस्य जन्म अपूर्णन्तु स कथं मोक्षस्य भाजनम् | यस्य पापाधिकत्वञ्च स कथं स्वर्गभाजनम् | अत एव महादेवि ! गुप्तभावं मया कृतम् | निर्म्माल्येन लभेत् स्वर्गं निर्वाणं सुधया भवेत् | पापयुक्तोऽपि चण्डालो निर्माल्यं गृह्यते यदा | प्. ६४७) तदा मोक्षं लभेत् सत्यं शिवरूपो न चान्यथा | महापातकयुक्तोऽपि कारणं पीयते यदि | ज्ञानान्मुक्तिर्भवेत् सत्यं जातिभेदादिकं न हि | सर्वजातिषु निर्वाणं ज्ञानेन परमेश्वरि ! | अत एव महेशानि ! गुप्तभावं मया कृतम् || पद्मपुराणे || द्रव्यमन्नं फलं तोयं शिवस्य न स्पृशेत् क्वचित् | न नयेच्छिवनिर्माल्यं कूपे सर्वं विनिक्षिपेत् | मक्षिकापादमात्रं यः शिवस्वमुपजीवति | लोभान्मोहात् पतत्येव कल्पान्तं नरके नरः || पुराणसंग्रहे || शिव उवाच || अनर्हं मम नैवेद्यं पत्रं पुष्पं फलं जलम् | शालग्रामशिलालग्नं सर्वं याति पवित्रताम् | नैवेद्यञ्च नरो भुक्त्वा शुद्ध्यै चान्द्रायणं चरेत् || इति निर्माल्यभक्षणे प्रायश्चित्तञ्च || वाणलिङ्गनिर्माल्यप्रतिसवस्तु शिवनारदसंवादे || वाणलिङ्गे न चाशौचं न च निर्माल्यकल्पना | सर्वं वाणार्पितं ग्राह्यं भक्त्या भक्तैश्च नान्यथा | ग्राह्याग्राह्यविचारोऽयं वाणलिङ्गे न विद्यते | तदर्पितं जलं पत्रं ग्राह्यं प्रसादसंज्ञया | स्वयम्भू प्रभृतिनिर्माल्यस्य ग्राह्यत्वमपि तत्रैव || वाणलिङ्गे स्वयम्भूते चन्द्रकान्तेन्द्रसंस्थिते | चान्द्रायणसमं ज्ञेयं शम्भोर्नैवेद्य भक्षणैः | निर्माल्यकल्पना चोक्ता सिद्धान्तशेखरे | धराहिरण्यगोरत्नताम्ररौप्यांशुकादिकम् | विहाय शेषनिर्माल्यं चण्डेशाय निवेदयेत् | एतेन लिङ्गार्पितवस्त्रादिग्रहणेन दोष इत्यायातम् | चण्डेशाय निवेदयेदित्यनेन चण्डेशनिवेदितं यत्तन्न भोक्तव्यम् | शालग्रामोद्भवे लिङ्गे ज्योतिर्लिङ्गे स्वयम्भुवि | इन्द्रलिङ्गे तथा ये चामराः सिद्धप्रतिष्ठिते | इन्द्रलिङ्गे इन्द्रनीलमणिविशेषलिङ्गे || प्रागुक्तचन्द्रकान्तेन्द्रसंस्थिते इत्यत्रापीदृग् व्याख्येति || हनूमन्तं प्रति शम्भु वाक्यम् || वाणलिङ्गे स्वयम्भूते चन्द्राकृतिहृदि स्थिते | चन्द्रायणसमं ज्ञेयं शम्भोर्नैवेद्यभक्षणम् | प्. ६४८) लिङ्गे स्वयम्भुवे वाणे लिङ्गे च रसनिर्मिते | सिद्धप्रतिष्ठिते चैव न चण्डाधिकृतिर्भवेत् | यत्र चण्डाधिकारोऽस्ति भोक्तव्यं तन्न मानवैः | चण्डाधिकारो नो यत्र भोक्तव्यं तत्तु भक्तितः | इति पञ्चपुरुषार्थप्रबोधे शिववचनाच्च | किं दीक्षया किं तपसा किं ध्यानेन किमिज्यया | शृणु देवि ! वरारोहे ! मद्भक्तं यदि भुज्यते | मद्भक्तं मन्निवेदेतिमित्यर्थ इति | तदपि वाणादिलिङ्गानामपि नैवेद्यविषयमिति वाणलिङ्गादिषु शम्भोर्नैवेद्यभक्षणे न दोष इति वदता ततोऽर्थान्निर्माल्यधारणमभ्यनुज्ञातम् | श्रीविश्वनाथतीर्थादिधारणन्तु कर्त्तव्यमेव | तथा स्कन्दपुराणे काशीखण्डे | जलस्य धारणं मूर्द्ध्नि विश्वेशास्तेऽन्यजन्मनीत्युपक्रम्य | स्नापयित्वा विधानेन यो लिङ्गस्नानजोदकम् | त्रिः पिबेत् त्रिविधं पापं तस्येहाशु विनश्यति | लिङ्गवरार्च्चनाद्भिर्यः कुर्यान्मूर्द्धाभिषेचनम् | गङ्गास्नानफलं तस्य जायते कुम्भसम्भव ! || तथा वाणेश्वरोपाख्याने || श्रद्धावतां स्वभक्तानामुपसर्गे महत्यपि | नोपायान्तरमस्त्येव विनेशचरणोदकम् | ये व्याधयोऽतिदुःसाख्या बहिरन्तः शरीरिणाम् | शुद्धमीशोदकस्पर्शात् ते नश्यन्त्येव नान्यथा || शान्तिकादौ शिवलिङ्गपूजा कुक्कुटेश्वरतन्त्रे || पार्वत्युवाच || देवदेव ! माहादेव ! परमेश ! पुरातन ! | दिनास्त्रं परमास्त्रञ्च कृत्यास्त्रं परमेश्वर ! | त्वत्प्रसादान्महादेव ! श्रुतं बहुविधं मया | इदानीं श्रोतुमिच्छामि अस्त्रं पाशुपताह्वयम् | कृपया कथय त्वं हि यदि स्नेहोऽस्ति मां प्रति || सदाशिव उवाच || साधु पृष्टं महादेवि ! जन्तूनां हितकारिणि ! | मम प्राणसमं योगं देवानामपि दुर्ल्लभम् | तव स्नेहात् प्रवक्ष्यामि तदस्त्रं परमाद्भुतम् | गोपनीयं प्रयत्नेन शपथं मे पुनः पुनः | लिङ्गमानं द्रव्यमानमर्च्चनं जपपद्धतिः | तत्सर्वं सम्प्रवक्ष्यामि शृणुष्व कमलानने ! | प्. ६४९) शततोलकमृत्स्नायाः कारयेल्लिङ्गमुत्तमम् | घृतेन मधुना वापि स्नापयेद्वश्यकर्मणि | दुग्धेन स्नापयेद्देवि ! शान्तौ मृत्युञ्जयेऽपि च | आकर्षणे तु मधुना भस्मना क्रूरकर्मणि | शततोलकमानेन द्रव्यमेतत् प्रकीर्त्तितम् | तन्मानं संविदाचूर्णं नैवेद्यञ्च सुरेश्वरि ! | विल्वपत्रं तथा पुष्पं दद्यादष्टोत्तरं शतम् | शान्तिकादौ द्रोणपुष्पं वर्वरा चाभिचारके | स्तम्भने मोहने चैव धुस्तूरं कनकाह्वयम् | विद्वेषोच्चाटने देवि ! जवा वाप्यपराजिता | चतुर्द्दश्यां समारभ्य यावदन्या चतुर्दशी | एकैकं क्रमशो लिङ्गं पूजयेद्भक्तिभावतः | अष्टाधिकसहस्रन्तु जपं कुर्याद्दिने दिने | सप्ताहे सप्त लिङ्गानि पञ्चाहे वाथ पञ्चकम् | चण्डोग्रेण विधानेन जपपूजादिकं स्मृतम् | वटुकेन तु मन्त्रेण मञ्जुघोषेण वा प्रिये ! | त्र्यम्बकेन तु मन्त्रेण शान्तिके जपपूजनम् | तत्तत्कल्पविधानेन पूजाजपं समाचरेत् | जातिध्वंसे कुलोच्छेदे आयुषो नाश आगते | महाभये समुत्पन्ने सर्वाभिचारसम्भवे | यत्नेन पूजयेद्देवि ! लिङ्गमष्टोत्तरं शतम् | दुग्धनिर्झरधाराभिः श्रोत्रान्तमभिषेचयेत् | अतिरुद्रप्रयोगादौ रुद्राध्यायेन वा पुनः | नीलकण्ठेन वा देवि ! स्तवेन तोषयेच्छिवम् | वस्त्रालङ्कारभूषादि दद्याच्च विभवावधि | सर्वकामप्रदं देवि ! सर्वसौभाग्यदायकम् | नातः परतरं देवि ! त्रिषु लोकेषु विद्यते | इति ते कथितं देवि ! अस्त्रं पाशुपताह्वयम् | यस्मै कस्मै न वक्तव्यं न प्रकाश्यं कदाचन || ब्राह्मणान् भोजयेच्छक्त्या भक्तिनम्रः समाहितः | नीलकण्ठेनेति कलीतरपरम् | कालीविलासतन्त्रीयवचनेन कलौ तन्निषेधात् | अथ शिवस्तोत्रम् | ओं सर्वज्ञ ! ज्ञानविज्ञानप्रदायक ! महात्मने | नमस्ते सर्वदेवेश ! सर्वभूतहिते रत ! | अनन्तकान्तिसम्पन्न ! अनन्तासनसंस्थित ! | प्. ६५०) अत्यन्तकान्तिसम्भोग ! परमेश ! नमोऽस्तु ते | परापरतरातीत ! उत्पत्तिस्थितिकारक ! | सर्वार्थसाधनोपाय ! विश्वेश्वर ! नमोऽस्तु ते | सर्वार्थनिर्म्मलाभोग ! सर्वव्याधिविनाशन ! | योगियोगिमहायोगियोगीश्वर ! नमोऽस्तुते ते | कृत्वा लिङ्गं प्रतिष्ठाञ्च ध्यात्वा देवं सदाशिवम् | पूजयित्वा विधानेन स्तवमेतमुदीरयेत् | लिङ्गस्तवं महापुण्यं यः शृणोति सदा नरः | नोत्पद्यते च संसारे स्थानं प्राप्नोति शाश्वतम् | तस्मात् सर्वप्रयत्नेन शृणुयाच्च सुसंस्तवम् | पापकञ्चुकनिर्मुक्तः प्राप्नोति परमं पदम् || इति भविष्यपुराणोक्तलिङ्गस्तवः समाप्तः || अथ कवचम् || रुद्रजामले || भैरव उवाच || वक्ष्यामि देवि ! कवचं मङ्गलं प्राणरक्षणम् | अहोरात्रं महादेवरक्षार्थं देवमण्डितम् | ओमस्य श्रीमहादेवकवचस्य वामदेव ऋषिः पङ्क्तिच्छन्दो हसौ निधो देवता सर्वसाधने विनियोगः | रुद्रोमामग्रतः पातु पृष्ठतः पातु शङ्करः | कपर्द्दी दक्षिणे पातु वामपार्श्वे तथा हरः | शिवः शिरसि मे पातु ललाटं नीललोहितः | नेत्रं नेत्र्यक्षरः पातु बाहुयुग्मं महेश्वरः | हृदये च महादेव ईश्वरश्च तथोदरे | नाभौ कुक्षौ कठिस्थाने पादौ पातु महेश्वरः | सर्वो रक्षतु भूतेशः सवगात्राणि मे हरः | पाशं शूलञ्च दिव्यास्त्रं खड्गञ्च वज्रमेव च | नमस्करोमि भूतेशं रक्षमां जगदीश्वर ! | पापेभ्यो नरकेभ्यश्च त्राहि मां भक्तवत्सल ! | जन्ममृत्युजराव्याधिकामक्रोधादपि प्रभो ! | लोभमोहान्महादेव ! रक्ष मां त्रिदशेश्वर ! | त्वं गतिस्त्वं मतिश्चैव त्वं भूतिस्त्वं परायणः | कायेन मनसा वाचा त्वयि भक्तिर्दृढास्तु मे | इत्येतद्रुद्रकवचं पठनात् पापनाशनम् | महादेवप्रसादेन भैरवेन च कीर्त्तितम् | न तस्य पापं देहेष न भयं तस्य विद्यते | प्. ६५१) प्राप्नोति सुखमारोग्यं पुत्रमायुःप्रवर्द्धनम् | पुत्रार्थी लभते पुत्रान् धनार्धो धनमाप्नुयात् | विद्यार्थी लभते विद्यां मोक्षार्थी मोक्षमेव च | व्याधितो मुच्यते रोगी बद्धो मुच्येत बन्धनात् | ब्रह्महत्यादिपापञ्च पठनादेव नश्यति || इति रुद्रजामले श्रीशिवकवचं समाप्तम् || अथ विल्ववृक्षादिमाहात्म्यम् || योगिनीतन्त्रे पूर्वखण्डे पञ्चमपटले || विल्वमूलं महेशानि ! समन्तात् षोडशं करम् | मम जटास्वरूपं हि पर्णं जानीहि सून्दरि ! | ऋग्यजुःसामसदृशं दलत्रयं वरानने ! | शाखाश्च सर्वशास्त्राणि जानीहि मीनलोचने ! | कल्पवृक्षसमो विल्वो ब्रह्मविष्णुशिवात्मकः | महालक्ष्मीर्विल्ववृक्षो जातः श्रीशैलपर्वते || श्रीदेव्युवाच || कथं सा विष्णुवनिता विल्ववृक्षो बभूव ह | ज्योतीरूपं मदशं प्रार्थिता ब्रह्मादिभिः सदा | तत्र मेऽनुग्रहाद्वाणी सर्वेषां प्रियतां गता | विष्णोरतिप्रिया नित्यं साभूत् सरस्वती सदा | तादृक् प्रीतिर्न लक्ष्याञ्च जायते केशवस्य च | इति चिन्तापरा लक्ष्मीर्ययौ श्रीशैलमन्दिरम् | प्राप्य मल्लिङ्गमेकान्तं तपस्तेपेऽतिदारुणम् | तथापि यदि नैवाभूत् कृपा मे परमेश्वरि ! | तदा सा वृक्षरूपेण स्थिता लिङ्गप्रिया सतीः | पत्रैः पुष्पैः स्वीयैः पूजयामास सन्ततम् | कोटिवर्षं महादेवि ! ततो मेऽनुग्रहोऽभवत् | तेनैवानुग्रहेणैव विष्णार्वक्षस्थिताऽभवत् | सदैव परमेशानि ! विप्रवश्या सदैव हि | अतस्तु कारणाद्देवि ! तद्रूपेण ह्रिप्रिया | सदैव पूजयेन्मांसा मद्भक्ता सातुला शिवे | अतस्तं वृक्षमाश्रित्य तिष्ठामि च दिवानिशम् | सर्वतीर्थमयो देवि ! सर्वदेवमयः सदा | श्रीवृक्षः परमेशानि ! अत एव न संशयः | तत्फलैस्तत्प्रसूनैर्वा तत्पत्रैर्यः प्रपूजयेत् | तत्काष्ठचन्दनैर्वापि स मेभक्तः स मे प्रियः | तत्काष्ठचन्दनं भाले यो धारयति सम्भ्रमात् | तत्तनुं शिवबुद्ध्या सा नमेद्देवीमुदान्विता | प्. ६५२) अतस्तच्चन्दनं देवि ! न धारयति कश्चन | तत्पत्रं तत्प्रसूनं वा कदापि धारयेन्न हि | विल्वमूले महेशानि ! प्राणांस्त्यजति यो नरः | रुद्रदेहो भवेत्सत्यं पापकोटियुतोऽपि सन् || पुरश्चरणरसोल्लासे दशमपटले || विल्ववृक्षस्तथा देवि ! भगवान् शङ्करः स्वयम् | विल्ववृक्षतले स्थित्वा यदि प्राणांस्त्यजेत् सुधीः | तत्क्षणान्मोक्षमाप्नोति किं तस्य तीर्थकोटिभिः | यत्रब्रह्मादयो देवास्तिष्ठन्ति शक्तिहेतवे | विल्ववृक्षतले स्थानं यदि विष्ठादिपूरितम् | तदेव शाङ्करं क्षेत्रं सर्वतीर्थमयं सदा | सर्वपीठमयं तत्त्वं सर्वदेवमयं सदा | न त्यजेच्छाङ्करं क्षेत्रं न च गङ्गां त्यजेत् प्रिये ! | समीपे स च चार्वङ्गि ! विल्ववृक्षो यदि प्रिये ! | काशीपुरसमं तत्तु तत्र प्राणांस्त्यजेद् यदि | किं तस्य कोटितीर्थेन काशीवासेन किं प्रिये ! | अथ विल्वमूले वेदीकरणम् || तत्रैव मध्यमखण्डे द्वादशपटले || वेदिकां रचयित्वा तु स्वस्तिवाचनपूर्वकम् | ईशानादग्निकोणान्तं ततोऽपि राक्षसं विशेत् | राक्षसाद्वायुकोणान्तं यावद्वायोर्महेशकम् | चतुर्दिक्षु समां भूमिं गृह्णीयाद्योगहेतवे | अष्टहस्तं भवेद्दैर्घ्यं विस्तृतञ्च तथा प्रिये ! | ऊर्द्ध्वं वितस्तिमानां स्याद् वेदिकां परिशोभिताम् | तदूर्द्ध्वे तु महावेदीं समन्तात् षोडशं करम् | पूजास्थानन्तु तद्विद्धि सर्वत्रायं विधिः प्रिये ! | सर्वत्रेति श्मशानादौ तत्प्रमाणमपि तत्रैव || विल्वमूले श्मशाने वा प्रान्तरेश्वत्थमूलके | नदीतीरे देवगर्भे गङ्गागर्भे चतुष्पथे | उज्जटे पर्वते वापि उद्याने पुष्पसंयुते | शिवालये शून्यगेहे अथवा निजमन्दिरे | वेश्यागेहे लतास्थाने गोष्ठे वान्यतमेऽपि वा || इति | रुद्रजामलेऽपि वेदिकाप्रमाणमुक्तं यथा || अश्वत्थविल्वमूले वा वेदीं कुर्याद्विधानवित् | उत्तराशामुखो भूत्वा वेदिकां रचयेत् सुधीः | प्. ६५३) ईशाने सूत्रपातः स्यादग्नौ च स्तम्भरोपणम् | नवधा सदनक्षेत्रं पूर्ववत् कारयेत्ततः | चतुःसूत्रीकृतं तन्तु न्यूनाधिकं न कारयेत् | क्षेत्रस्य यावद्विस्तारः प्रस्थश्च तावदेव हि | अष्टहस्तमितं कुर्ययादायामं तत्तदेव हि | मूलायामं परित्यज्य अष्टहस्तमिहेष्यते | ऊर्द्ध्वं वितस्तिमानां हि वेदीं कुर्यात् सुलक्षणाम् | चतुर्हस्तमितां वेदीं दैर्घ्यं मध्ये तु तन्त्रवित् | तदेव पूर्ववत् सर्वं सूत्रञ्च स्तम्भरोपणम् | आयामदैर्घ्यं तद्वद्वै कर्त्तुर्हस्तश्चतुश्चतुः | तद्वदेव हस्तमात्रं परित्यज्य सुसाधकः | अथ पञ्चवटीस्थापनविधिः प्रसङ्गाल्लिख्यते || तथा च स्कन्दपुराणे || अश्वत्थो विल्ववृक्षश्च वटो धात्री अशोककः | वटीपञ्चकमित्युक्तं स्थापयेत् पञ्चदिक्षु च | अश्वत्थं स्थापयेत् प्राचिविल्वमुत्तरभागतः | वटं पश्चिमभागे तु धात्रीं दक्षिणतस्तथा | अशोकं वह्निदिक्स्थाप्यं तपस्यार्थं सुरेश्वरि ! | मध्ये वेदीं चतुर्हस्तां सुन्दरीं सुमनोहराम् | प्रतिष्ठां कारयेत्तस्याः पञ्चवर्षोत्तरं शिवे ! | अनन्तफलदात्री सा तपस्या फलदायिनी | इयं पञ्चवटी प्रोक्ता वृहत्पञ्चवतीं शृणु | विल्ववृक्षं मध्यभागे चतुर्द्दिक्षु चतुष्टयम् | वटवृक्षं चतुष्कोणे वेदसंख्यं प्ररोपयेत् | अशोकं वर्त्तुलाकारं पञ्चविंशतिसम्मितम् | दिग्विदिक्ष्वामलकञ्चैव एकैकं परमेश्वरि ! | अश्वत्थञ्च चतुर्दिक्षु वृहत्पञ्चवटी भवेत् | यः करोति महेशानि ! साक्षादिन्द्रसमो भवेत् | इह लोके मन्त्रसिद्धिः परे च परमा गतिः || इति हेमाद्रीयव्रतखण्डधृतवचनानि च || अथ विल्वपत्रमाहात्म्यम् || मत्स्यसूक्ते षोडशपटले || तत्त्वं श्रीफलपत्रस्य परमं पदमव्ययम् | पत्रं मनोहरं दिव्यं रुद्रविष्णुपितामहाः | पञ्चाशत्तत्त्वसंयुक्तं चतुर्वर्गमयं सदा | प्. ६५४) चतुर्वर्गमयं पत्रं धर्मार्थकाममोक्षदम् | विल्वपत्रञ्च देवेशि ! वर्णितुं नैव शक्यते | जटात्रयसमं पत्रं विल्वपत्रस्य पार्वति ! | जटात्रयं महेशानि ! सर्वतत्त्वमयं सदा | आत्मतत्त्वं महेशानि ! विद्यातत्त्वं तथापरम् | परतत्त्वं महेशानि ! अतिगुह्यं मनोहरम् || तथा || विल्वपत्रं महेशानि ! करवीरं तथा प्रिये ! | तथापराजितापुष्पं दुर्ल्लभं शिवपूजने | तथा च शक्तिपूजायां कोटिपूजाफलं लभेत् | एतत्पुष्पप्रदानेन यत् फलं लभते नरः | माहात्म्यं तस्य देवेशि ! वर्णितुं नैव शक्त्यते | एषां मध्ये वसेद्ब्रह्मा एषां मूले जनार्दनः | एषां मध्ये वसेद्रुद्रः सर्वे देवाः स्थितास्तले | सर्वं ज्योतिर्मयं देवि ! विल्वपत्रञ्च पार्वति ! || पञ्चमपटले || विल्वपत्रं महेशानि ! ब्रह्मविष्णुशिवात्मकम् | गुणत्रयात्मकं देवि ! त्रिपत्रं सर्वकामदम् || योगिनीतन्त्रे || विल्वपत्रस्य माहात्म्यं देवानामपि दुर्लभम् | यो दद्याद्विल्वपत्रञ्च शिवायै शङ्कराय च | सदाशिवसमो भूत्वा स गच्छेद्ब्रह्ममन्दिरम् | शिवपूजायां विल्वपत्रदाने विशेषस्तु श्रीतत्त्वचिन्तामणिधृतत्रिविक्रमसंहितायाम् || अच्छिन्नमूलं तत् पत्रं यो दद्याच्छङ्करार्चने | तस्य पूजा वृथा देवि ! मृतो नरकमाप्नुयात् || इति | मातृकाभेदतन्त्रे द्वादशपटले || स्वर्णपुष्पसहस्रेण यत् फलं लभते नरः | तस्माल्लक्षगुणं पुण्यं भग्नैकविल्वपत्रके | भग्नैकविल्वपत्रस्य सहस्रैकेन भागतः | मेरुतुल्यसुवर्णेन तत् फलं न हि लभ्यते | एवञ्च लिङ्गार्चन तन्त्रे द्वादशपटलोक्तपूर्वलिखितकीटादि- दोषवर्जितकोमलमधुरपत्रत्रययुतविल्वपत्रदानवचनं तत् फलातिशयार्थम् || इति विल्वपत्रमाहात्म्यम् || अथ रुद्राक्षमाहात्म्यम् || योगसारे द्वितीयपरिच्छेदे || श्रीमहादेव उवाच || इदानीं देवदेवेशि ! मालानां धारणं शुभम् | प्. ६५५) रुद्राक्षस्य च माहात्म्यं वद मे परमेश्वरि ! | श्रीदेव्युवाच || शिखायां हस्तयोः कण्ठे कर्णयोश्चापि यो नरः | रुद्राक्षं धारयेद्भक्त्या शिवलोकमवाप्नुयात् | नववक्त्रन्तु रुद्राक्षं धारयेद्वामबाहुना | दक्षबाहौ तथा वत्स ! धारयेद्यतमानसः | शिखायां दशनं धार्यं कण्ठे च पञ्चविंशतिम् || कर्णयोः पञ्चमं कृत्वा हृदि चाष्टोत्तरं शतम् | नाभौ सप्त च रुद्राक्षं धारणान्मोक्षभाग्भवेत् | रुद्राक्षधारणाद्देव ! नरो देवत्वमाप्नुयात् || शिखायां दशनं द्वात्रिंशत्परिमितम् || तथा || रुद्राक्षं धारयेन्नित्यं भद्राक्षञ्च सुरेश्वर ! | रुद्राक्षस्य महाबाहो ! माहात्म्यं शृणु यत्नतः | एकवक्त्रः शिवः साक्षाद्ब्रह्महत्यां व्यपोहति | अबध्यं तं प्रतिस्रोतो वह्नेः स्तम्भं करोति च | द्विवक्त्रो हरगौरी च गोबधाद्यघनाशकृत् | त्रिवक्त्रोऽग्निर्जगन्नाथः पापराशिविनाशकृत् | तूलराशिं यथा वह्निर्भस्मसात् कुरुते हर ! | त्रिवक्त्रोऽपि च रुद्राक्षस्तथा दहति किल्विषम् | चतुर्वक्त्रस्तु धाता स्यात् नरहत्यां व्यपोहति | पञ्चवक्त्रस्तु कालाग्निरगम्यागमपापनुत् | षड्वक्त्रो यो गुहः साक्षाद् गुरुहत्यां व्यपोहति | सप्तवक्त्रो ह्यनन्तश्च स्वर्णस्तेयाघनुत् सदा | विनायकोऽष्टवक्त्रः स्यात् सर्वानृतविनाशकृत् | भैरवो नववक्त्रः स्यात् शिवसायुज्यदायकः | दशवक्त्रः स्वयं विष्णुर्भूतप्रेतपिशाचहा | एकादशमुखो रुद्रो नानायज्ञफलप्रदः | द्वादशास्यो भवेदर्कः सर्वतीर्थफलप्रदः | त्रयोदशमुखः कामः सर्वकामफलप्रदः | चतुर्दशास्यः श्रीकण्ठो वंशोद्धारकरः स्मृतः | यथोक्तं तेऽपि रुद्राक्षे तथेन्द्राक्षे प्रकीर्तितम् | भद्राक्षेऽपि सुरश्रेष्ठ ! तद्गुणं परिकीर्तितम् | एतेषां संस्कारस्त्वस्मद्गोष्ठीगरिष्ठकृष्णानन्दागमवागीशेन स्वकृततन्त्रसारे लिखितमतोऽत्र न प्रयोजनम् | एकवक्त्रादिचतुर्दशवक्त्रपर्ययन्तानां प्रमाणं तेनापि लिखितम् | किन्तु तत् पौराणिकं पद्मपुराणस्कन्दपुराणमिति कृत्वा लिखितं तेन रुद्राक्षस्य प्रमाणं तन्त्रशास्त्रे नास्तीत्येकदेशदर्शिनः सन्दिहन्ति अतः प्रमाणानि लिखितानीति || प्. ६५६) इति रुद्राक्षमाहात्म्यम् || अथ संविदाप्रकरणम् || समयाचारतन्त्रे प्रथमपटले || समया गोपनीयानां सदा गोप्या प्रकीर्त्तिता | विधिना समयां देवि ! ये तु भुञ्जन्ति साधकाः | ते नराः स्वर्गता नित्यं भोगं कृत्वा सदा भुवि | समयां गोपयेद्देवि ! शिष्येभ्योऽपि च सुन्दरि ! | विना च समयां देवि ! कथं कर्माणि साधयेत् | विनापि समयां पूजा न कुत्रापि शुभोदया || आचारसारे संवित्कल्पे सप्तमपटले || योगिनां किं सदा सेव्यं कौलानां बलपुष्टिदम् | मनश्चाञ्चल्यहरणं किं समाधिफलप्रदम् | इत्यादिदेवीप्रश्नानन्तरं बलनामासुरादिन्द्रादीनां पराजयमुक्त्वा शक्रादीनां कैलासगमनानन्तरं स्तुतिकरणञ्च प्रस्तुत्य शिववाक्यम् || शृणु शक्र ! महाभाग ! सर्वमेतद्वदामि ते | त्रैलोक्य विजया ख्याता नामानि प्रथमं शृणु || कथयामि तव स्नेहादतिगोप्यानि सर्वतः | त्रैलोक्यविजया सिद्धा सिद्धिः सा सिद्धिमूलिका | ज्ञानं संवित् संविदा च श्यामा भङ्गा रसायना | योगदा योगिनी सेव्या योगमार्गप्रकाशिनी | ब्रह्माणी ब्रह्मसम्भूता ब्रह्मानन्दप्रदायिनी | वाग्देवतावशकरी विजयूर्विजयप्रदा | समाधिवरदाऽज्ञाननाशिनीत्येकविंशतिः | श्वेतरक्तकृष्णपीतपुष्पभेदाश्चतुर्विधाः | श्वेतपुष्पा ब्राह्मणी सा क्षत्रिया रक्तपुष्पिका | पीतपुष्पा तु वैश्या स्याच्छूद्रा तु रक्तपुष्पिका | आहृत्य पत्राण्येतासां सबीजानि प्रयत्नतः | भर्जितानि घृतेनैव चूर्णितानि शिलातले | त्रिकटु त्रिफला शृङ्गी कुष्ठधन्याकसैन्धवम् | शठी तालीशपत्रञ्च कटुकं नागकेशरम् | यवानीद्वयमेथीञ्च जीरकद्वयमेव च | एतानि समभागानि रौद्रशुष्कानि चूर्णयेत् | प्. ६५७) स्वर्णादिपात्रे पुरतः स्थापयित्वा ततः क्रमात् | चतुर्भिर्मनुभिस्तस्याः शोधनं समुपाचरेत् | निवेश्य तत्र पानीयं यथाविधि विशोधयेत् | ओं संविदेत्यादि | ओं ब्रह्माण्यै नमः स्वाहा क्षत्रियां शोधयेत्ततः | ओं सिद्धिमूलक्रिये ! देवीत्थादि | ऐं क्षत्रियायै नमः स्वाहा वैश्यां विशोधयेत्ततः | ओं अज्ञानेन्धनेत्यादि | ह्रीं वैश्यायै नमः स्वाहा शूद्रां विशोधयेत्ततः | ओं नमस्यामीत्यादि | क्लीं शूद्रायैः नमः स्वाहा शूद्राविशोधने मनुः || महानिर्वाणतन्त्रे पञ्चमोल्लासे || बद्धवीरासेनो मन्त्री विजयां परिशोधयेत् || मुण्डमालातन्त्रे || अस्य श्रीवाग्वादिनोमन्त्रस्य ब्रह्मर्षिर्गायत्रीच्छन्दो वाग्वादिनी देवता ऐं बीजं क्लीं कीलकं सौः शक्तिर्वाग्वादिनीप्रीत्यर्थं मम सिद्धये जपे विनियोगः || अङ्गन्यासकरन्यासौ कृत्वा चैव यथाविधि | ततो वै संविदाचूर्णं संस्तुत्य मन्त्रमुच्चरन् || तथा || गुरोर्मुखाल्लब्धमन्त्रं नित्यं जपति साधकः | तेनैव विधिना मन्त्री समयामभिमन्त्रयेत् | सप्तधामन्त्रितं कृत्वा गुरुं सर्वं विभावयेत् | गुरुं शिवं तथा देवीं निवेद्य चैव भक्षयेत् || महानिर्वाणतन्त्रे || तारं मायां समुच्चार्य अमृते ! अमृतोद्भवे ! | अमृतवर्षिणि ! ततोऽमृतमाकर्षयद्विधा | सिद्धिं देहि ततो ब्रूयादमुकं मे ततः परम् | वशमानय ठद्वन्द्वं संविदाशोधने मनुः | मूलमन्त्रं सप्तवारं प्रजप्य विजयोपरि | आवाहन्यादिमुद्राश्च धेनुयोनीः प्रदर्शयेत् | गुरुं पद्मे सहस्रारे यथा सङ्केतमुद्रया | त्रिधैव तर्पयेद्देवीं हृदि मूलं समुच्चरन् | वाग्भवं वदयुग्मञ्च वाग्वादिनि ! पदं ततः | मम जिह्वाग्रे स्थिरीभव सर्वसत्त्ववशङ्करि ! | स्वाहान्तेनैव मनुना जुहुयात् कुण्डलीमुखे | शक्रादिजयमुक्त्वा | ऐं वद वद क्रीं वाग्वादिनि ! मम जिह्वाग्रे स्थिरीभव सर्वसत्त्ववशङ्करि ! स्वाहा | सप्तधामन्त्रितं कृत्वा गुरुञ्चैव विभाव्य च | प्. ६५८) संविदं भक्षयेद्देवि ! साधकः स्थिरमानसः | अथवानेन मन्त्रेण कल्पयेत् परमेश्वरि ! | ओं जय जय विजय विजय परं ब्रह्मस्वरूपिणि ! | सर्वजनं मे वशमानय हुं फट् स्वाहा | इत्यनेन च पीत्वा तु भक्षयित्वा कुलेश्वरि ! | इष्टमन्त्रञ्च सञ्जप्य सप्तधा तत्त्वमुद्रया || आचारसारे तु विशेषो यथा || ओं अमृते ! अमृतोद्भवे ! अमृतवर्षिणि ! पदं ततः | अमृतमाकर्षय द्वन्द्वं सिद्धिं देहि ततः परम् | अमुक म ततो ब्रूयाद्वशमानय तत्परम् | द्विठान्तोऽयं मनुः प्रोक्तश्चतुष्काणाञ्च मन्त्रणे || आनन्दभैरवानन्दभैरव्यै तत्र मन्त्रयेत् | शिवसोममातृकान्तं कालभूवरुणालयम् | वामकर्णसमायुक्तं वायुमर्द्धेन्दुसंयुतम् | आनन्दभैरवायेति शिखामन्त्रं ततो वदेत् | आनन्दभैरवस्यायमानन्दभैरवं शृणु | पूर्ववद्वीजमालिख्य धेनुयोनिस्ततः परम् | दिग्बन्धनं छोटिकाभिस्तालत्रयपुरःसरम् | दिव्यदृष्ट्या ततः पार्ष्णिघातैर्विघ्नान् विघातयेत् | सप्तधा तर्पयेद्ब्रह्मरन्ध्रे जपन्मनुं गुरुम् | निजं पद्मे सहस्रारे तथा सङ्केतमुद्रया | त्रिवारं तर्पयेद्भक्त्या सकृद्वापि निजेच्छया | परमाख्यं गुरुं तत्र परापरगुरुं ततः | तत्रैवानन्दभैरव्यै तर्पयेत्तु मनुं स्मरन् | हृदये तर्पयेद्देवीं मूलेन तत्त्वमुद्रया | संविदयात्रिः सकृद्वा तिलमुद्गप्रमाणया | ऐं वद वद पदं ब्रूयाद्वाग्ववादिनि ! पदं ततः | सप्त जिह्वाग्रे स्थिरोभव वदेत् सर्वपदं ततः | सत्त्ववशङ्करि ! स्वाहा त्रिः प्रोच्य जुहुयान्मुखे | मुखामृतेन दिव्येन स्वीकुर्यात् संविदां ततः || समयाचारतन्त्रे प्रथमपटले || अथातः सम्प्रवक्ष्यामि समयास्तोत्रमुत्तमम् | यत् श्रुत्वा सिद्धिमूली सा भक्षिता फलदा भवेत् | ओं संविदे ! ब्रह्मसम्भूते ! ब्रह्मपुत्रि ! सदानघे ! | भैरवाणान्तु तृप्त्यर्थं पवित्रा भव सर्वदा | नृणाञ्च जननी नाथा वेशालङ्कृतमण्डला | भवसन्तापनिर्वापः सुधियां त्वं महानिधिः | प्. ६५९) ओं सिद्धिमूलीक्रिये ! हीनबोधप्रबोधिनि ! | राजप्रजावशङ्करि ! शत्रुकण्ठत्रिशूलिनि ! | ओं अज्ञानेन्धनदीप्ताग्नेर्ज्वालाग्नेर्ज्ञानरूपिणि ! | आनन्दस्याहुतिं मत्वा सम्यक् ज्ञानं प्रयच्छ मे || अथ आनन्दमयोध्यानम् || दण्डाधिरूढपरिपूरितमोक्षभोगामिन्दुप्रसन्नवदनां जयदानशीलाम् | आराधयामि बहुशत्रुपराजयित्रीं विश्वेश्वरीं त्रिभुवने विजयेति देवीम् | ध्यात्वैवं विजयामेतामानन्दाख्यां स्तवं पठेत् | आनन्दनन्दनीं वन्दे सदानन्दपदद्वये ! | आनन्दकदलीं वन्दे स्वच्छन्दबोधरूपिणीम् | कलयति कवितां महतीं कुरुते स्वार्थदर्शनं पुंसाम् | अपहरति दुरितनिलयं किं किं न करोति संविदुल्लासः || संविदासवयोर्मध्ये संविदेव गरीयसी | भक्षिता भवनाशाय निर्गन्धा बोधरूपिणी | सुसंवित् शूलिनी देवी विजया संविदाङ्कुरा | वैष्णवी तुलसी तुङ्गा तेजोरश्मीरसेश्वरी | विमर्षा श्वेतवद्वैद्या लक्ष्मीदेवी महोदरी | समया मोहिनी चैव सिद्धमूली महोदरी | मातुलानी सिद्धिरूपा सिद्धिधात्री सरस्वती | वाग्वादिनो सदा नित्या आनन्दप्रददायिनी | यानि चैतानि नामानि सेवयेत् सिद्धिमूलिकाम् | समाप्नोति परां विद्यां भुक्तिं मुक्तिञ्च विन्दति | पाण्डित्यञ्च कवित्वञ्च मन्त्रसिद्धिञ्च विन्दति || इति विजयास्तोत्रम् || अथ द्रव्यविशेषेण विजयाभक्षणफलम् || आचारसारे || दुग्धाम्बुघृतमाध्वीकसैन्धवैर्लवणेन वा | सितया तु गुडेनापि पक्वेन कदलेन वा | यद्यद्वा मधुरं द्रव्यं पक्वाम्रपनसादिकम् | तेन सर्वेण विजया स्वीकार्या सर्वसाधकैः | दुग्धयोगेन विजया केवलानन्दवर्द्धिनी | महातेजस्करी चक्षुर्दोषादिविनिवारिणी | सा पुनर्जलयोगेन सर्वाजीर्णविनाशिनी | घृतेन मेधामाधत्ते वाग्देवोवशकारिणी | प्. ६६०) पतितामुत्तमां धत्ते धिषणाञ्चातिनिर्म्मलाम् | कायदोषानशेषांश्च मधुना सह नाशयेत् | सैन्धवेन महावह्निं प्रदद्याल्लवणेन च | सितयाथ गुडेनापि शूलाम्लपित्तनाशिनी | अतिसारोपशमनी श्वासकासप्रमर्दिनी | आमवातसमुद्भूतग्रहणोविनिवारिणी | सर्वैर्वा मधुसंयुक्ता सर्वामयविनाशिनी | बलपुष्टिप्रदा चैव मधुरस्वरदायिनी | ज्ञानविज्ञानदाक्षिण्यशीलमार्गप्रकाशिनी | बहुना किमिहोक्तेन केवला चित्स्वरूपिणी || तथा | संविदासवयोर्मध्ये संविदेव गरीयसी | संवित्प्रयोगस्तेनेह कर्त्तव्यः साधकोत्तमैः | अथ संविदाभक्षणकालः || एककालं द्विकालं वा त्रिकालं पञ्चकालकम् | तोलकं वा तदर्द्धं वा तोलकद्वयमेव वा | तन्न्यूनाधिकमात्रा वा यथा भवति नित्यशः | न्यूनाधिकायां मात्रायां फलं तत्तत् प्रजायते | तस्मात् प्रमाणविदुषा कर्त्तव्या सिद्धिमिच्छता || समयाचारतन्त्रे || ब्राह्म्ये मुहूर्ते उत्थाय भक्तितः पापनाशिनी | तथा सूर्योदये जाते मध्याह्ने भक्षिता तथा | तथापराह्णसमये विधिवत् सर्वसाधिनी | अर्द्धरात्रे विशेषेण वाञ्छितार्थफलप्रदा | विनापि समयां देवि ! जपपूजादिकं कथम् | न च सिद्धिमवाप्नोति अभिचाराय कल्पते | अपमृत्युहरां नॄणां रोगशोकविनाशिनीम् | दुष्टशत्रुप्रशमनीं सर्वलोकानुरञ्जिनीम् | सिद्धयो ह्यणिमाद्याश्च हस्ते तस्य व्यवस्थिताः | कायिकं वाचिकञ्चापि मानसं यच्च दुष्कृतम् | एतत् सर्वं क्षयं याति ब्रह्महत्यादिकं तथा | स शिवः स च संयोगी स संयुक्तो यती तथा | स एव मर्त्यः स्वर्गस्थः समया येन पालिता | समया भक्षिता येन समया येन धारिता | समया पालिता येन रहितः स च पातकैः | भक्षयित्वा च समयां यं यं मन्त्रं जपेन्नरः | स सम्यक् फलमाप्नोति सत्यं सत्यं वरानने ! | विना च समयां देवि ! मन्त्रं जपति नित्यशः | प्. ६६१) अल्पायुः स भवेत् सद्यो देवतां कोपयेद् ध्रुवम् || कुब्जिकातन्त्रे सप्तमपटले || समयाञ्च विना देवि ! न सिद्धः स्यात् कदाचन | तस्माच्चैव प्रयत्नेन गृह्णीयान्नात्र संशयः || अथ विजयाधूमपानं योगसारे प्रथमपरिच्छेदे || अथ वान्यप्रकारेण क्षुन्निवृत्तिर्विधीयते | प्रत्यहं विजयाधूमं ब्रह्मरन्ध्रेण मन्त्रवित् | पानं करोति योगेशः क्षुन्नाशो जायते ध्रुवम् | ब्रह्ममन्त्रमहं वक्ष्ये येन क्षुन्नाशनं भवेत् | संवर्त्तयुक् चन्द्रवह्निभौतिकौ बिन्दुसंयुतौ | एवं वीजत्रयं देव ! समुच्चार्य कुलेश्वर ! | अन्यूनपनुनानेन विजयाधूमशोधनम् | शोधयित्वा पिबेद्धूमं न दोषो विद्यते हर ! | मन्त्रस्तु क्ष्रौं क्ष्रौं क्ष्रौं || योगसारे || अथवान्यप्रकारेण क्षुन्नवृत्तिर्विधीयते | हविष्याशी भवेदादौ पश्चाज्जपति मातृकाम् | पश्चाद्घृतं प्रभोक्तव्यं मनुनानेन शङ्कर ! | हसौर्बीजेन मनुना भक्षयेत् साधकोत्तमः || इति विजयाधूमपानम् || इति विजयाप्रकरणम् || इति श्रीप्राणतोषिण्यां पञ्चमे भक्तिकाण्डे शिवप्रकरणकथनरूपस्तृतीयः परिच्छेदः | ########### END OF FILE #######